Wednesday, April 29, 2009

Mahalakshmi Gayatri Mantra महालक्ष्मी गायत्री मन्त्र

महालक्ष्मि गायत्री मन्त्र
Maha Lakshmi Gayatri Mantra


ॐ महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥


If I am not Posting.

I may be doing something at these places:

Youtube

Esnips


Saturday, April 25, 2009

Sankata Nasana Ganapati Stotram संकष्टनाशनं गणेशस्तोत्रम्

संकष्टनाशनं गणेशस्तोत्रम् 
Sankata Nasana Ganapati Stotram

श्रीगणेशाय नम: ।
नारद उवाच । 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तावासं स्मरेनित्यं आयु: कामार्थसिद्धये ॥१॥ 
The learned one, who wishes,
For more life, wealth and love,
Should salute with his head,
Lord Ganapathi who is the son of Parvathy.


प्रथमं वक्रतुण्डं च एकदंत द्वितीयकम् । तृतीयं कृष्णपिड्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥ 
Think him first as god with broken tusk,
Second as the God with one tusk,
Third as the one with reddish black eyes,
Fourth as the one who has the face of an elephant.


लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेंद्रं धूर्मवर्णं तथाष्टकम् ॥३॥ 
Fifth as the one who has a very broad paunch,
Sixth as the one who is cruel to his enemies,
Seventh as the one who is remover of obstacles,
Eighth as the one who is of the colour of smoke.


नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥ 
Ninth as the one who crescent in his forehead,
Tenth as the one, who is the leader of remover of obstacles,
Eleventh as the leader of the army of Lord Shiva,
And twelfth as the one who has the face of an elephant.


द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: । न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥५॥ 
Any one reading these twelve names,
At dawn, noon and dusk,
Will never have fear of defeat,
And would always achieve whatever he wants.


विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्॥६॥ 
One who pursues education will get knowledge,
One who wants to earn money will get money,
One who wishes for a son, will get a son,
And one who wants salvation will get salvation.


जपेद्गगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् । सर्वत्सरेण सिद्धि च लभते नात्र संशय: ॥७॥
Results of chanting this prayer,
Of Ganapathi will be got within six months,
And within a year, he would get all wishes fulfilled,
And there is no doubt about this.


अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्तयेत् । तस्य विद्या भवेत्सर्वा गणेशास्य प्रसादत: ॥८॥
One who gets this prayer,
Written by Eight Brahmanas,
And offers it to Lord Ganesa,
Will become knowledgeable,
And would be blessed with all stellar qualities,
By the grace of Lord Ganesa.
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्
Thus ends the prayer to Ganesa from Narada Purana which would destroy all sorrows.



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


Vyasa Krit Shree Bhagwati Stotram व्यासकृतं श्रीभगवतीस्तोत्रम्

व्यासकृतं श्रीभगवतीस्तोत्रम्
Vyasa Krit Shree Bhagwati Stotram
जय भगवति देवि नमो वरदे जय पापविनाशिनि बहुफलदे।

जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवि नरार्तिहरे॥१॥

जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे।

जय भैरवदेहनिलीनपरे जय अन्धकदैत्यविशोषकरे॥३॥

जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे।

जय देवि पितामहविष्णुनते जय भास्करशक्रशिरोवनते॥३॥

जय षण्मुखसायुधईशनुते जय सागरगामिनि शम्भुनुते।

जय दु:खदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे॥४॥

जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दु:खहरे।

जय व्याधिविनाशिनि मोक्ष करे जय वाञ्िछतदायिनि सिद्धिवरे॥५॥

एतद्व्यासकृतं स्तोत्रं य: पठेन्नियत: शुचि:।

गृहे वा शुद्धभावेन प्रीता भगवती सदा॥६॥


॥इति श्रीव्यासकृतं श्रीभगवतीस्तोत्रं सम्पूर्णम् ॥
If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


Shiva Krit Krit Durga Strotam शिवकृतं दुर्गास्तोत्रम्

शिवकृतं दुर्गास्तोत्रम्
Shiva Krit Krit Durga Strotam
श्रीमहादेव उवाच

रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि। मां भक्त मनुरक्तं च शत्रुग्रस्तं कृपामयि॥

विष्णुमाये महाभागे नारायणि सनातनि। ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी॥

त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके। त्वं साकारे च गुणतो निराकारे च निर्गुणात्॥

मायया पुरुषस्त्वं च मायया प्रकृति: स्वयम्। तयो: परं ब्रह्म परं त्वं बिभर्षि सनातनि॥

वेदानां जननी त्वं च सावित्री च परात्परा। वैकुण्ठे च महालक्ष्मी: सर्वसम्पत्स्वरूपिणी॥

म‌र्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिन:। स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले॥

नागादिलक्ष्मी: पाताले गृहेषु गृहदेवता। सर्वशस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी॥

रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती। प्राणानामधिदेवी त्वं कृष्णस्य परमात्मन:॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि। गोलोकाधिष्ठिता देवी वृन्दावनवने वने॥

श्रीरासमण्डले रम्या वृन्दावनविनोदिनी। शतश्रृङ्गाधिदेवी त्वं नामन चित्रावलीति च॥

दक्षकन्या कुत्र कल्पे कुत्र कल्पे च शैलजा। देवमातादितिस्त्वं च सर्वाधारा वसुन्धरा॥

त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती। त्वदंशांशांशकलया सर्वदेवादियोषित:॥

स्त्रीरूपं चापिपुरुषं देवि त्वं च नपुंसकम्। वृक्षाणां वृक्षरूपा त्वं सृष्टा चाङ्कुररूपिणी॥

वह्नौ च दाहिकाशक्ति र्जले शैत्यस्वरूपिणी। सूर्ये तेज:स्वरूपा च प्रभारूपा च संततम्॥

गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी। शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम्॥

सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका। महामारी च संहारे जले च जलरूपिणी॥

क्षुत्त्‍‌वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी। तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम्॥

शान्तिस्त्वं च स्वयं भ्रान्ति: कान्तिस्त्वं कीर्तिरेव च। लज्जा त्वं च तथा माया भुक्ति मुक्ति स्वरूपिणी॥

सर्वशक्ति स्वरूपा त्वं सर्वसम्पत्प्रदायिनी। वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन॥

सहस्त्रवक्त्रस्त्वां स्तोतुं न च शक्त : सुरेश्वरि। वेदा न शक्ता: को विद्वान् न च शक्ता सरस्वती॥

स्वयं विधाता शक्तो न न च विष्णु: सनातन:। किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि॥

कृपां कुरु महामाये मम शत्रुक्षयं कुरु।


॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्ण जन्मखण्डे शिवकृतं दुर्गास्तोत्रं सम्पूर्णम् ॥
If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips
For meaning in Hindi Please visit WikiPedia

Parashurama Krit Durga Strotam परशुरामकृतं दुर्गास्तात्रम्

परशुरामकृतं दुर्गास्तात्रम्
Parashurama Krit Durga Strotam
परशुराम उवाच

श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च:आविर्भूता विग्रहत: पुरा सृष्ट्युन्मुखस्य च॥

सूर्यकोटिप्रभायुक्ता वस्त्रालंकारभूषिता। वह्निशुद्धांशुकाधाना सुस्मिता सुमनोहरा॥

नवयौवनसम्पन्ना सिन्दूरविन्दुशोभिता। ललितं कबरीभारं मालतीमाल्यमण्डितम्॥

अहोऽनिर्वचनीया त्वं चारुमूर्ति च बिभ्रती। मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधि: स्वयम्॥

मुमोह क्षणमात्रेण दृ त्वां सर्वमोहिनीम्। बालै: सम्भूय सहसा सस्मिता धाविता पुरा॥

सद्भि: ख्याता तेन राधा मूलप्रकृतिरीश्वरी। कृष्णस्त्वां सहसाहूय वीर्याधानं चकार ह॥

ततो डिम्भं महज्जज्ञे ततो जातो महाविराट्। यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च॥

तच्छृङ्गारक्रमेणैव त्वन्नि:श्वासो बभूव ह। स नि:श्वासो महावायु: स विराड् विश्वधारक:॥

तव घर्मजलेनैव पुप्लुवे विश्वगोलकम्। स विराड् विश्वनिलयो जलराशिर्बभूव ह॥

ततस्त्वं पञ्चधाभूय पञ्चमूर्तीश्च बिभ्रती। प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मन:॥

कृष्णप्राणाधिकां राधां तां वदन्ति पुराविद:॥

वेदाधिष्ठातृमूर्तियां वेदाशास्त्रप्रसूरपि। तौ सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिण:॥

ऐश्वर्याधिष्ठातृमूर्ति: शान्तिश्च शान्तरूपिणी। लक्ष्मीं वदन्ति संतस्तां शुद्धां सत्त्‍‌वस्रूपिणीम्॥

रागाधिष्ठातृदेवी या शुक्लमूर्ति: सतां प्रसू:। सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञा: प्रवदन्त्यहो॥

बुद्धिर्विद्या सर्वशक्ते र्या मूर्तिरधिदेवता। सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी॥

सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना॥

शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके। सरस्वती च सावित्री वेदसू‌र्ब्रह्मण: प्रिया॥

राधा रासेश्वरस्यैव परिपूर्णतमस्य च। परमानन्दरूपस्य परमानन्दरूपिणी॥

त्वत्कलांशांशकलया देवानामपि योषित:॥

त्वं विद्या योषित: सर्वास्त्वं सर्वबीजरूपिणी। छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी॥

शची शक्रस्य कामस्य कामिनी रतिरीश्वरी। वरुणानी जलेशस्य वायो: स्त्री प्राणवल्लभा॥

वह्ने: प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी। यमस्य तु सुशीला च नैर्ऋतस्य च कैटभी॥

ईशानस्य शशिकला शतरूपा मनो: प्रिया। देवहूति: कर्दमस्य वसिष्ठस्याप्यरुन्धती॥

लोपामुद्राप्यगस्त्यस्य देवमातादितिस्तथा। अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा॥

गङ्गा च तुलसी चापि पृथिव्यां या: सरिद्वरा:। एता: सर्वाश्च या ह्यन्या: सर्वास्त्वत्कलयाम्बिके॥

गृहलक्ष्मीगर्ृहे नृणांराजलक्ष्मीश्च राजसु। तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च॥

सतां सत्त्‍‌वस्वरूपा त्वमसतां कलहाङ्कुरा। ज्योतीरूपा निर्गुणस्य शक्ति स्त्वं सगुणस्य च॥

सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने। जले शैत्यस्वरूपा च शोभारूपा निशाकरे॥

त्वं भूमौ गन्धरूपा च आकाशे शब्दरूपिणी। क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्त य:॥

सर्वबीजस्वरूपा त्वं संसारे साररूपिणी। स्मूतिर्मेधा च बुद्धिर्वा ज्ञानशक्ति र्विपश्चिताम्॥

कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसू: शुभा। शूलिने कृपया सा त्वं यतो मृत्युञ्जय: शिव:॥

सृष्टिपालनसंहारशक्त यस्त्रिविधाश्च या:। ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते॥

मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पित:। स्तुत्वा मुमोच यां देवीं तां मूधनर् प्रणमाम्यहम्॥

मधुकैटभयोर्युद्धे त्रातासौ विष्णुरीश्वरीम्। बभूव शक्ति मान् स्तुत्वा तां दुर्गा प्रणमाम्यहम्॥

त्रिपुरस्य महायुद्धे सरथे पतिते शिवे। यां तुष्टुवु: सुरा: सर्वे तां दुर्गा प्रणमाम्यहम्॥

विष्णुना वृषरूपेण स्वयं शम्भु: समुत्थित: जघान त्रिपुरं स्तुत्वा तां दुर्गा प्रणमाम्यहम्॥

यदाज्ञया वाति वात: सूर्यस्तपति संततम्। वर्षतीन्द्रो दहत्यगिन्स्तां दुर्गा प्रणमाम्यहम्॥

यदाज्ञया हि कालश्च शश्वद् भ्रमति वेगत:। मृत्युश्चरति जन्त्वोघे तां दुर्गा प्रणमाम्यहम्॥

स्त्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया। संहर्ता संहरेत् काले तां दुर्गा प्रणमाम्यहम्॥

ज्योति:स्वरूपो भगवाञ्छ्रीकृष्णो निर्गुण: स्वयम्। यया विना न शक्त श्च सृष्टिं कर्तु नमामि ताम्॥

रक्ष रक्ष जगन्मातरपराधं क्षमस्व ते। शिशूनामपराधेन कुतो माता हि कुप्यति॥

इत्युक्त्वा पर्शुरामश्च प्रणम्य तां रुरोद ह। तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ॥

अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज। शर्वप्रसादात् सर्वत्र ज्योऽस्तु तव संततम्॥

सर्वान्तरात्मा भगवांस्तुष्टोऽस्तु संततं हरि:। भक्ति र्भवतु ते कृष्णे शिवदे च शिवे गुरौ॥

इष्टदेवे गुरौ यस्य भक्ति र्भवति शाश्वती। तं हन्तु न हि शक्ताश्च रुष्टाश्च सर्वदेवता:॥

श्रीकृष्णस्य च भक्त स्त्वं शिष्यो हि शंकरस्य च। गुरुपत्‍‌नीं स्तौषि यस्मात् कस्त्वां हन्तुमिहेश्वर:॥

अहो न कृष्णभक्तानामशुभं विद्यते क्वचित्। अन्यदेवेषु ये भक्ता न भक्ता वा निरेङ्कुशा:॥

चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो। तेषां तारागणा रुष्टा: किं कुर्वन्ति च दुर्बला:॥

यस्य तुष्ट: सभायां चेन्नरदेवो महान् सुखी। तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बला:॥

इत्युक्त्वा पार्वती तुष्टा दत्त्‍‌वा रामं शुभाशिषम्। जगामान्त:पुरं तूर्ण हरिशब्दो बभूव ह॥

स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च य: पठेत्। यात्राकाले च प्रातर्वा वाञ्िछतार्थ लभेद्ध्रुवम॥

पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्। विद्यार्थी लभते विद्यां प्रजार्थी चाप्रुयात् प्रजाम्॥

भ्रष्टराज्यो लभेद् राज्यं नष्टवित्तो धनं लभेत्॥

यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा। तस्य तुष्टश्च वरद: स्तोत्रराजप्रसादत:॥

दस्युग्रस्तोऽहिग्रस्तश्च शत्रुग्रस्तो भयानक:। व्याधिग्रस्तो भवेन्मुक्त : स्तोत्रस्मरणमात्रत:॥

राजद्वारे श्मशाने च कारागारे च बन्धने। जलराशौ निमगन्श्च मुक्त स्तत्स्मृतिमात्रत:॥

स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे। स्तोत्रस्मरणमात्रेण वाञ्िछतार्थ लभेद् ध्रुवम॥

कृत्वा हविष्यं वर्ष च स्तोत्रराजं श्रृणोति या। भक्त्या दुर्गा च सम्पूज्य महावन्ध्या प्रसूयते॥

लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम्। असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत्॥

नवमासं काकवन्ध्या मृतवत्सा च भक्ति त:। स्तोत्रराजं या श्रृणोति सा पुत्रं लभते धु्रवम्॥

कन्यामाता पुत्रहीना पञ्जमासं श्रृणोति या। घटे सम्पूज्य दुर्गा च सा पुत्रं लभते धु्रवम्॥


॥ इति श्रीब्रह्मवैवर्तपुराणे प्रकृतिखण्डे परशुरामकृतं दुर्गास्तोत्रं सम्पूर्णम् ॥
If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips
For meaning in Hindi Please visit WikiPedia

Shree Krishna Krit Durga Strotam श्रीकृष्णकृतं दुर्गास्तोत्रम्

श्रीकृष्णकृतं दुर्गास्तोत्रम्
Shree Krishna Krit Durga Strotam
श्रीकृष्ण उवाच

त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी। त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्। परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी॥

तेज:स्वरूपा परमा भक्त ानुग्रहविग्रहा। सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा॥

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया। सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला॥

सर्वबुद्धिस्वरूपा च सर्वशक्ति स्वरूपिणी। सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी।

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम्। दक्षिणा सर्वदाने च सर्वशक्ति स्वरूपिणी।

निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मन: प्रिया। क्षुत्क्षान्ति: शान्तिरीशा च कान्ति: सृष्टिश्च शाश्वती॥

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा। सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह॥

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा। शश्वत्कर्ममयी शक्ति : सर्वदा सर्वजीविनाम्॥

देवेभ्य: स्वपदो दात्री धातुर्धात्री कृपामयी। हिताय सर्वदेवानां सर्वासुरविनाशिनी॥

योगनिद्रा योगरूपा योगदात्री च योगिनाम्। सिद्धिस्वरूपा सिद्धानां सिद्धिदाता सिद्धियोगिनी॥

माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी। भद्रदा भद्रकाली च सर्वलोकभयंकरी॥

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे। सतां कीर्ति: प्रतिष्ठा च निन्दा त्वमसतां सदा॥

महायुद्धे महामारी दुष्टसंहाररूपिणी। रक्षास्वरूपा शिष्टानां मातेव हितकारिणी॥

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा। ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम्॥

विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम्। मेधास्मृतिस्वरूपा च प्रतिभा प्रतिभावताम्॥

राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी। सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने॥

तथान्ते त्वं महामारी विश्वस्य विश्वपूजिते। कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी॥

दुरत्यया मे माया त्वं यया सम्मोहितं जगत्। यया मुग्धो हि विद्वांश्च मोक्षमार्ग न पश्यति॥

इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम्। पूजाकाले पठेद् यो हि सिद्धिर्भवति वाञ्िछता॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा। श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते ध्रुवम्॥

कारागारे महाघोरे यो बद्धो दृढबन्धने। श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते ध्रुवम्॥

यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी। श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात् प्रमुच्यते॥

पुत्रभेदे प्रजाभेदे पत्‍‌नीभेदे च दुर्गत:। श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशय:॥

राजद्वारे श्मशाने च महारण्ये रणस्थले। हिंस्त्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते॥

गृहदाहे च दावागनै दस्युसैन्यसमन्विते। स्तोत्रश्रवणमात्रेण लभते नात्र संशय:॥

महादरिद्रो मूर्खश्च वर्ष स्तोत्रं पठेत्तु य:। विद्यावान धनवांश्चैव स भवेन्नात्र संशय:॥
॥ इति श्रीब्रह्मवैवर्तपुराणे प्रकृतिखण्डे श्रीकृष्णकृतं दुर्गास्तोत्रं सम्पूर्णम् ॥


If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


For meaning in Hindi Please visit WikiPedia

Shree Mrityunjaya Stotram श्री मृत्युञ्जय स्तोत्र

श्री मृत्युञ्जय स्तोत्र 
Mrityunjaya Stotram

श्रीगणेशाय नमः ॥

ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः । अनुष्टुप्‌ छन्दः ॥ श्रीमृत्युंञ्जयो देवता ॥ गौरी शक्तिः ॥ मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं च जपे विनियोगः ॥

अथ ध्यानम् ॥ चन्द्रार्कानिविलोचनमं स्मितमुखं पद्मद्वयान्तःस्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पार्णि हिमांशुप्रभम् ॥

कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥१॥

नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनम् ॥
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥२॥

नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम्  

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥

वामदेवं महादेवं लोकनाथं जगद्‌गुरुम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥४॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम्  

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥

गङ्गाधरं महादेवं सर्वाभरणभूषितम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥६॥

अनाथं परमानन्दं कैवल्यपददायिनम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥७॥

स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम्

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥८॥

उत्पत्तिस्थितिसंहारकर्त्तारमीश्वरं गुरुम्

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥९॥

मार्कण्डेयकृतं स्तोत्र यः पठेच्छिवसन्निधौ  

तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥

शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम्  

शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥

मृत्युञ्चय महादेव त्राहि मां शरणागतम्  

जन्ममृत्युजरारोगै पीडितं कर्मबन्धनेः ॥१२॥

तावतस्त्वद्‌गतप्राणस्त्वच्चित्तोऽहं सदा मृड  

इति विज्ञाप्य देवेशं त्र्यंबकाख्यमनुं जपेत् ॥१३॥

नमः शिवाय साम्बाय हरये परमात्मने  

प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥

शताङ्गायुर्मन्त्रः ॥ ॐ ह्री श्रीं ह्रीं ह्रौं ह्रें ह्रः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय 
महामहाभैरव भैरवरूपेण धुनुय धुनुय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर क्षोभय क्षोभय कटु कटु मोहय मोहय हंफट्‌ स्वाहा । इति मन्त्रमात्रेण लब्धाभीष्टो भवति ॥१५॥


इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतं महामृत्युञ्जयस्तोत्रं सम्पूर्णम् 



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


Bhagawati Stuti भगवतीस्तुति:

भगवतीस्तुति:

प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्करण्डहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥
प्रातर्भजामि भजतामभिलाषदात्रीं धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णो: ॥३॥



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


Friday, April 24, 2009

Totakaashhtakam तोटकाष्टकं Adi Shankaraachaarya

Totakaashhtakam तोटकाष्टकं
Here is an article containing the toTakaashhTakam, eight verses composed in honor of Adi Shankaraachaarya. 
शंकरं शंकराचार्यं केशवं बादरायणम् । 
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥
I offer obeisances again and again to shrii Veda Vyaasa, the author of the Brahma suutras, who is none other than Lord VishNu, and shrii Shankaraachaarya, the commentator on those suutras, who is none other than Lord Shiva.


नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । 
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम्॥
श्री शंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् । 
तं तोटकं वातिर्ककारमन्यानस्मद्गुरून् संततमानतो । अस्मि 
These two verses honor the advaita paramparaa . The names mentioned here, in order, are 1) Shriiman naaraayaNa, 2) Brahmaa, 3) VasishhTha, 4) Shakti, 5) Paraashara, 6) Vyaasa, 7) Shuka, 8) GauDapaada, 9) Govindapaada, 10) Shrii (Adi) Shankaraachaarya, and his four disciples, 11) Padmapaada, 12) Hastaamalaka, 13) toTaka, and 14) Sureshvara, and other Gurus.


विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । 
हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम्॥१॥
O knower of the nectar-ocean of the scriptures, the expounder of the knowledge of the great upanishadic treasure! I meditate on Your pure lotus feet in my heart . O Preceptor Shankara, be my refuge.


करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । 
रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम्॥२॥
Save me whose heart is afflicted by the misery of the ocean of births, O (You who are) the ocean of compassion! (By Your grace) make me the knower of the truths of all the systems of philosophy . O Preceptor Shankara, be my refuge.


भवता जनता सुहिता भविता निजबोधविचारण चारुमते । 
कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम्॥३॥
The people have found happiness due to You, who have the intellect adept in
the inquiry into Self-knowledge . Make me understand the knowledge of God
and the soul . O Preceptor Shankara, be my refuge.



भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । 
मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणं॥४॥
You are Lord Shiva Himself . Knowing this my mind is filled with an abundance of joy . Put an end to my sea of delusion . O Preceptor Shankara, be my refuge.


सुकृते . अधिकृते बहुधा भवतो भविता समदर्शनलालसता । 
अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम्॥५॥
Only after numerous virtuous deeds have been performed in many ways, does a keen desire for the experience of Brahman through You arise. Protect (me who am) extremely helpless . O Preceptor Shankara, be my refuge.


जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । 
अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम्॥६॥
For the sake of saving the world, (Your) great (disciples) wander assuming various forms and guises . O Guru, You shine like the sun (among them). O Preceptor Shankara, be my refuge.


गुरुपुंगव पुंगवकेतन ते समतामयतां नहि को . अपि सुधीः । 
शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम्॥७॥
O Best among the Gurus! The Lord whose flag bears the emblem of the bull! You have no equal among the wise . You who are affectionate to those who seek refuge! The treasure of truth! O Preceptor Shankara, be my refuge.


विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो । 
द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम्॥८॥
I have neither understood even one branch of knowledge clearly, nor do I possess any wealth, O Guru . Quickly bestow on me the compassion which is
natural to You . O Preceptor Shankara, be my refuge.





If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


Wednesday, April 22, 2009

Shree Ashta Lakshmi Stotram अष्टलक्ष्मी

Shree Ashta Lakshmi Stotram अष्टलक्ष्मी स्त्रोतम्

1.Aadi Lakshmi (Forever) - आदि लक्ष्मी


Sumans vanditha, sundari, madhavi, chandra-sahodhari,hemamai;
Munigana vanditha, mokshapradayani manjula bashani, vedasuthe
Pankajavasini, Devasupoojita sadguna varshini, shantiyute,
Jaya, Jaya,hey mudhusudhana kamini Aadi lakshmi Jaya palayamam.

Victory and victory to Adhi lakshmi 
Oh, darling of the killer of Madhu,
Who is worshipped by all good people,
Who is pretty and sister of the moon,
Who looks as if she is made of gold,
Who is saluted by all groups of sages,
Who grants salvation,
Who talks sweet words,
Who is praised by Vedas,
Who lives on the Lotus flower,
Who is worshipped by all devas,
Who showers good qualities on people,
And who is the personification of peace,
Please protect me always.

2.Dhanya Lakshmi. (Vegetation) - धान्य लक्ष्मी

Aikali kalmashanashini, kamini vaidhik Rupini, Vedamai,
Sherasumudra mangala Rupinimandranivasini, manthramathe,
Mangaladayani,Ambujavasini, Devaganashritha Padayuthe,
Jaya,Jaya,hey Mudhusudhana kamini dhanya lakshmi palayamam.

Victory and victory to Danyalakshmi
Oh darling of the killer of Madhu,
Who destroys bad effects of kali yuga,
Who is most desirable god,
Who is personification of Vedas,
Who is pervaded by the Vedas,
Who arose out of milk,
Who is the form of all that is good,
Who lives in the sacred chants,
Who lives on the lotus flower,
And whose feet is worshipped by devas,
Please protect me always



3.Dhairya Lakshmi (Patience, tolerance, Courage)- धैरीय लक्ष्मी

Jayavaravarshini,Vaishnaivi,Bhargavi mandraswarupini,manthramai,
Suragunapujitha,Shree shu phala prada ganyavikasini,shastramathe.
Bhava Bhaia harini,Papavimochini Sadhujanashritha Padayuthe,
Jaya,Jaya,Hey Madhusudana Kamini Dhairya Lakshmi, Jaya palayamam.

Victory and victory to Dairyalakshmi
Oh, darling of the killer of Madhu,
Who is described by victorious and blessed,
Who is the shakthi which came out of Vishnu,
Who is the daughter of sage Bhargava,
Whose form is that of sacred chants,
Who is pervaded by sacred chants,
Who is worshipped by all devas,
Who gives results fast,
Who improves knowledge,
Who is worshipped by shastras,
Who destroys fear,
Who gives redemption from sins,
And whose feet is worshipped by holy people,
Who lives on the lotus flower,
Please protect me always



4. Gaja Lakshmi.(Destroyer of Evil) - गज लक्ष्मी

Jaya,Jaya, Duragathi nashini,kamini sarva phala prada,shastramaye,
Radhgajhthurag padathi samavruth Parijana manditha Lokanuthe,
Hari Hara Brahma supugitha saveta tapanivarina,Padayuthe,
Jaya, Jaya, hey madhusudana kamini shree Gaja Lakshmi Palayamam.

Victory and victory to Gajalakshmi
Oh darling of the killer of Madhu,
Victory and victory to you,
Who removes bad fate,
Who is desirable God,
Who is the personification of shastras,
Which bless one with all that is asked,
Who is surrounded by an army of elephants,
Chariots, horses and cavalry,
Who is worshipped and served by,
Shiva, Vishnu and Brahma,
And whose feet provides relief from suffering,
Please protect me always


5.Santana Lakshmi. (Offspring) - सन्तान लक्ष्मी
 
Ayi, gaja vahini,mohini, chakrani, Ragavivardhini, ganyamaye,
Gunagana varidhi,Lokahithaishini Saptasvara-maie ganayamathe,
Sakala Surasura deva munieshwara manava vanditha Padayuthe,
Jaya, Jaya hey madhusudana kamini santana Lakshmi Palayamam.

Victory and victory to Santhanalakshmi
Oh, darling of the killer of Madhu,
Who rides on the bird,
Who is an enchantress,
Who is the consort of he who holds the chakra,
Who pacifies emotions,
Who is pervaded by knowledge,
Who is ocean of good qualities,
Who has her mind in the good of all the world,
Who is worshipped by the music of seven swaras,
And who is worshipped by all devas, asuras,
Sages and all humans,
Please protect me always.


6.Vijaya Lakshmi. (Victory) - विजय लक्ष्मी


Jaya, kamalasini, Sadgathi dayani ganya vikasini, ganamai,
Anudina,marchitha kumkuma dusara bhushitha vasitha , nadyamathe.
Kanakadarastruthi vaibhava vanditha Shankara desika manyapadhe,
Jaya, Jaya hey madhusudana kamini Vijaya Lakshmi Palayamam.


Victory and victory to Vijayalakshmi
The darling of the killer of Madhu,
Victory to she who sits on the lotus,
Who blesses us with salvation,
Who spreads our knowledge,
Who is pervaded with music,
Who is coated with the saffron powder,
Which is daily used to worship her,
Who is worshipped by playing of musical instruments,
And who was pleased by the prayer,
Of the golden rain by the great Sankara,
Please protect me always.


7.Vidya Lakshmi. (Education) -  विद्या लक्ष्मी

Pranatha Sureshwari, Bharathi, Bhargavi shokavinashini, Rathnamai,
Manimaia bhushitha karnavibhushina shantisamavruth hasyamukhe,
Navanidhi, dayani,kalimala harini Kamyaphalaprada, hasyayuthe,
Jaya, Jaya, hey madhusudana kamini Vidya Lakshmi Palayamam.

Victory and victory to Vidhyalakshmi
Oh, darling of the killer of Madhu,
Who is the pleased goddess of devas,
Who is he goddess of Bharatha,
Who is the daughter of sage Bhargava,
Who removes all sorrows,
Who is fully ornamented by precious stones,
Who wears several gem studded ornaments,
Whose ear is decorated,
Who is the abode of peace,
Who has a smiling face,
Who blesses us with nine types of wealth,
Who steals away bad effects of kali,
And whose hands blesses us,
For fulfillment of our wish,
Please protect me always


8.Dhana Lakshmi (Wealth) - धन लक्ष्मी

Dhimi,dhimi Dindimi, dindimi dindimi, Dandubhinada sampurnamae,
Ghuma,ghuma gungama, gunguma, gunguruha shanka ni nadasuvadyamathe,
Vivida, puraniyitihasya supujitha, vidik marg shrudharshyuthe,
Jaya, Jaya, hey mudhusudana kamini Shree Dhana Lakshmi Palayamam. Shubham


Victory and victory to Danalakshmi
Hey, darling of the killer of Madhu,
Who is fully complete with,
Dimidimi sounds of the drum,
And the majestic sound of conch,
Gumguma, ghummkuma, gunguma,
Who is worshipped by Vedas and puranas,
And who shows the path of religious discipline,
Please protect me always.



Shri Lakshmi Chalisa (श्री लक्ष्मी चालीसा)

श्री लक्ष्मी चालीसा
Shri Lakshmi Chalisa 

।। दोहा ।।

मातु लक्ष्मी करि कृपा, करो हृदय में वास ।

मनोकामना सिद्घ करि, परुवहु मेरी आस ।।



यही मोर अरदास, हाथ जोड़ विनती करुं ।

सब विधि करौ सुवास, जय जननि जगदंबिका ।।



सिन्धु सुता मैं सुमिरौ तोही । ज्ञान बुद्घि विघा दो मोही ।।

तुम समान नहिं कोई उपकारी । सब विधि पुरवहु आस हमारी ।।

जय जय जगत जननि जगदम्बा । सबकी तुम ही हो अवलम्बा ।।

तुम ही हो सब घट घट वासी । विनती यही हमारी खासी ।।

जगजननी जय सिन्धु कुमारी । दीनन की तुम हो हितकारी ।।

विनवौं नित्य तुमहिं महारानी । कृपा करौ जग जननि भवानी ।।

केहि विधि स्तुति करौं तिहारी। सुधि लीजै अपराध बिसारी ।।

कृपा दृष्टि चितववो मम ओरी । जगजननी विनती सुन मोरी ।।

ज्ञान बुद्घि जय सुख की दाता । संकट हरो हमारी माता ।।

क्षीरसिन्धु जब विष्णु मथायो । चौदह रत्न सिन्धु में पायो ।।

चौदह रत्न में तुम सुखरासी । सेवा कियो प्रभु बनि दासी ।।

जब जब जन्म जहां प्रभु लीन्हा । रुप बदल तहं सेवा कीन्हा ।।

स्वयं विष्णु जब नर तनु धारा । लीन्हेउ अवधपुरी अवतारा ।।

तब तुम प्रगट जनकपुर माहीं । सेवा कियो हृदय पुलकाहीं ।।

अपनाया तोहि अन्तर्यामी । विश्व विदित त्रिभुवन की स्वामी ।।

तुम सम प्रबल शक्ति नहीं आनी । कहं लौ महिमा कहौं बखानी ।।

मन क्रम वचन करै सेवकाई । मन इच्छित वांछित फल पाई ।।

तजि छल कपट और चतुराई । पूजहिं विविध भांति मनलाई ।।

और हाल मैं कहौं बुझाई । जो यह पाठ करै मन लाई ।।

ताको कोई कष्ट न होई । मन इच्छित पावै फल सोई ।।

त्राहि त्राहि जय दुःख निवारिणि । त्रिविध ताप भव बंधन हारिणी ।।

जो चालीसा पढ़ै पढ़ावै । ध्यान लगाकर सुनै सुनावै ।।

ताकौ कोई न रोग सतावै । पुत्र आदि धन सम्पत्ति पावै ।।

पुत्रहीन अरु संपति हीना । अन्ध बधिर कोढ़ी अति दीना ।।

विप्र बोलाय कै पाठ करावै । शंका दिल में कभी न लावै ।।

पाठ करावै दिन चालीसा । ता पर कृपा करैं गौरीसा ।।

सुख सम्पत्ति बहुत सी पावै । कमी नहीं काहू की आवै ।।

बारह मास करै जो पूजा । तेहि सम धन्य और नहिं दूजा ।।

प्रतिदिन पाठ करै मन माही । उन सम कोइ जग में कहुं नाहीं ।।

बहुविधि क्या मैं करौं बड़ाई । लेय परीक्षा ध्यान लगाई ।।

करि विश्वास करै व्रत नेमा । होय सिद्घ उपजै उर प्रेमा ।।

जय जय जय लक्ष्मी भवानी । सब में व्यापित हो गुण खानी ।।

तुम्हरो तेज प्रबल जग माहीं । तुम सम कोउ दयालु कहुं नाहिं ।।

मोहि अनाथ की सुधि अब लीजै । संकट काटि भक्ति मोहि दीजै ।।

भूल चूक करि क्षमा हमारी । दर्शन दजै दशा निहारी ।।

बिन दर्शन व्याकुल अधिकारी । तुमहि अछत दुःख सहते भारी ।।

नहिं मोहिं ज्ञान बुद्घि है तन में । सब जानत हो अपने मन में ।।

रुप चतुर्भुज करके धारण । कष्ट मोर अब करहु निवारण ।।

केहि प्रकार मैं करौं बड़ाई । ज्ञान बुद्घि मोहि नहिं अधिकाई ।।


।। दोहा ।।


त्राहि त्राहि दुख हारिणी, हरो वेगि सब त्रास ।

जयति जयति जय लक्ष्मी, करो शत्रु को नाश ।।

रामदास धरि ध्यान नित, विनय करत कर जोर ।

मातु लक्ष्मी दास पर, करहु दया की कोर ।।
_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



Tuesday, April 14, 2009

Chandrasekhara Ashtakam चन्द्रशेखराष्टकं

चन्द्रशेखराष्टकं
Chandrasekhara Ashtakam 


चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ १॥

रत्नसानुशरासनं रजतादिशृङ्गनिकेतनं
सिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम् ।
क्षिप्रदघपुरत्रयं त्रिदिवालयैभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ २॥

I seek refuge in him, who has the moon, Who made the mountain of jewels into his bow, Who resides on the mountain of silver, Who made the serpent Vasuki as rope, Who made Lord Vishnu as arrows, And quickly destroyed the three cities, And who is saluted by the three worlds, And so what can the God of Death do to me?

पञ्चपादपपुष्पगन्धपदाम्बुजदूयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रह।म् ।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ३॥

I seek refuge in him, who has the moon, Who shines with the pair of his lotus-like feet, Which are worshipped by the scented flowers of five kalpaka trees,
Who burnt the body of God of Love, Using the fire from the eyes on his forehead,
Who applies ash all over his body, Who destroys the sorrow of life, And who does not have destruction, And so what can the God of Death do to me?


मत्त्वारणमुख्यचर्मकृतोत्तरीमनोहरं
पङ्कजासनपद्मलोचनपुजिताङ्घ्रिसरोरुहम् ।
देवसिन्धुतरङ्गसीकर सिक्तशुभ्रजटाधरं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ४॥

I seek refuge in Him, who has the moon, Who is the stealer of minds because of his upper cloth, Made of the skin of the ferocious elephant,
Who has lotus-like feet which are worshipped, By Lord Brahma and Lord Vishnu, And who has matted hair drenched by drops, Of the waves of the holy river Ganga, And so what can God of Death do to me?

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुता परिष्कृत चारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ५॥

I seek refuge in him, who has the moon, Who is friend of Lord Kubera, Who destroyed the eyes of Bhaga, Who wears serpent as ornament, Whose left part of the body is decorated, By the daughter of the king of mountain, Whose neck is blue because of the poison, Who is armed with an axe, And who carries a deer with Him, And so what can God of Death do to me?

कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्धकामा श्रिता मरपादपं शमनान्तकं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ६॥

I seek refuge in Him, who has the moon, Who wears the ear studs made of a curling serpent, Who is the great one being praised by Narada and other sages, Who is the Lord of the entire earth, Who is the killer of Anthakasura. Who is the wish-giving tree to his devotees, And who is the killer of God of Death, And so what can God of Death do to me?

भषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञर्विनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तफलप्रदं सकलाघसङ्घनिवर्हनं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ७॥

I seek refuge in Him, who has the moon, Who is the doctor who cures sorrowful life,
Who destroys all sorts of dangers, Who destroyed the fire sacrifice of Daksha, Who is personification of three qualities, Who has three different eyes, Who bestows  devotion and salvation, And who destroys all types of sins, And so what can God of death do to me?

भक्त वत्सलमचिञ्तं निधिमक्षयं हरिदम्वरं
सर्वभूतपतिं परात्पर प्रमेयमनुत्तमम् ।
सोमवारिज भूहुताशनसोमपानिलखाकृतिं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ८॥

I seek refuge in Him, who has the moon, Who is worshipped as darling of devotees, Who is the treasure which is perennial, Who clothes Himself with the directions, Who is the chief of all beings, Who is beyond the unreachable God, Who is not understood by any one, Who is the holiest of every one, And who is served by moon, water, sun, earth, Fire, ether, boss and the Wind And so what can god of death do to me?

विश्वसृष्टिविधालिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चम शेषलोकनिवासिनम् ।
क्रिडयन्तमहर्निशं गणनाथयूथ समन्वितंचन्द्रशेखर चन्द्रशेकर चन्द्रशेकर रक्षमाम् ॥ ९॥

I seek refuge in Him, who has the moon, Who does the creation of the universe, Who then is interested in its upkeep, Who at proper time destroys the universe, Who lives in every being of the universe, Who is plays day and night with all beings, Who is the leader of all beings, And who is like any one of them, And so what can god of death do to me?


मृत्युभीतमृकण्डसूनुकृतस्तव शिव सन्निधौ
यत्र कुत्र च पठेन्नहि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगितामखिलाथ सम्पदमादरंचन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ १०॥

He who reads this prayer, Composed by the son of Mrukandu, Who was fear struck with death, In the temple of Lord Shiva, Will not have fear of death, He would have full healthy life, With all grains and all wealth, And Lord Chandra Shekara, Would give Him, Salvation in the end.


॥ इति चन्द्रशेखराष्टकम् ॥




_______________________________
If I am not Posting. I may be doing something at these places:

Youtube
Esnips