Friday, February 25, 2011

Mangala Chandika Stotram

मंगल चण्डिका स्तोत्रम्
शंकर उवाच
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके हारिके विपदां राशेर्हर्ष-मंगल-कारिके
हर्ष-मंगल-दक्षे हर्ष-मंगल-चण्डिके शुभे मंगल-दक्षे शुभ-मंगल-चण्डिके
मंगले मंगलार्हे सर्व-मंगल-मंगले सतां मंगलदे देवि सर्वेषां मंगलालये
पूज्या मंगलवारे मंगलाभीष्ट-दैवते पूज्ये मंगल-भूपस्य मनुवंशस्य संततम्
मंगलाधिष्ठातृदेवि मंगलानां मंगले संसार-मंगलाधारे मोक्ष-मंगल-दायिनी
सारे मंगलाधारे पारे सर्वकर्मणाम् प्रतिमंगलवारे पूज्ये मंगलप्रदे
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मंगलचण्डिकाम्
प्रतिमंगलवारे पूजां कृत्वा गतः शिवः
देव्याश्च मंगल-स्तोत्रं यं श्रृणोति समाहितः तन्मंगलं भवेच्छश्वन्न भवेत् तदमंगलम्
प्रथमे पूजिता देवी शंभुना सर्वमंगला । द्वितीय पूजिता देवी मंगलेन ग्रहेण च ॥
तृतीये पूजिता भद्रा मंगलेन नृपेण च । चतुर्थे मंगले वारे सुन्दरीभिश्च पूजिता ॥
पञ्चमे मंगलाकाङ्क्षैर्नरैर्मंलचण्डिका ॥
पूजिता प्रतिविश्वेषु विश्वेशै: प्रतिमा सदा । तत: सर्वत्र संपूज्या सा बभूव सुरेश्वरी ॥
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने । देव्याश्च मंगलस्तोत्रं य: शृणोति समाहित: ॥
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् । वर्धन्ते तत्पुत्रपौत्रा मंगलं च दिने दिने ॥

(ब्रह-वैवर्त्त-पुराण प्रकृतिखण्ड ४४ २९-४१)