Thursday, June 7, 2012

Chapter 1 : श्रीमद्देवी भागवतमहापुराणम् Shrimad Devi Bhagavatam


श्रीमद्देवी भागवतमहापुराणम्

अथ प्रथमा‍‌ऽध्याय:
सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रिडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवत वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधितालङ्करोतु ॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं ससस्वतीं व्यास ततो जयमुदीरयेत् ॥२॥
ऋषय ऊचु:
सूत जीवसमा बह्वीर्यस्त्वं श्रावयसीह न: । कथा मनोहरा: पुण्या व्यासशिष्य महामते ॥३॥
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भतम् । अवतारकथोपेतमस्माभिर्भक्तित: श्रुतम् ॥४॥
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्य माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥५॥
अधुना श्रोतुमिच्छाम: पावनात् पावनं परम् । नॄणामनायासे सर्वाश: ॥६॥
तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवा: । कलावि परं त्वत्तो न विद्म: संशयच्छिदम् ॥७॥
सूत उवाच
साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वाशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषत: ॥८॥
तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रुयते सम्यग् देवीभागवतं नरै: ॥९॥
तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशु: पाप्तो देवीभागवताभिध: ॥१०॥
तावत् क्लेशावहं नॄणामुपसर्गमहातम: । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगु: ॥११॥
ऋषय ऊचु:
सूत सूत माहभा वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च क: ॥१२॥
कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवै: श्रुतं पुर्वं कान्कान्कामानवाप्नुयु: ॥१३॥
सूत उवाच
विष्णोरंशो मुनिर्जात: सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुर: शिष्यानध्यापयत्युरा ॥१४॥
व्रात्यानां द्विजबन्धूनां वेदेष्वनधीकारिणाम् । स्त्रीणां दुर्मेधसा नॄणां धर्मज्ञानं कथं भवेत् ॥१५॥
विचार्यैतत् तु मनसा भगवान् बादरायण: । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥१६॥
अष्टादश पुराणानि स कृत्वा भगवान। मुनि: । मामेवाध्यापयामास भारतख्यानमेव च ॥१७॥
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥१८॥
पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्त संशुध्यै राज्ञा भागवतं श्रुतम् ॥१९॥
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानत: ॥२०॥
नवाहयज्ञे सम्पूर्णे परीक्षिदपि भूपति: । दिव्यरूपधरो देव्या: सालोक्यं तत्क्षणादगात् ॥२१॥
पितुर्दिव्यां गतिं राजा विलोक्य जनमेजय: । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥२२॥
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥२३॥
ये श्रृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभी: ॥२४॥
दिनमर्ध तदर्ध वा मुहुर्तं क्षणमेव वा । ये श्रृण्वन्ति नरा भक्त्या न तेषां दुर्गति: क्वचित् ॥२५॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नर: ॥२६॥
कृतादौ बहवो धर्मा: कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥२७॥
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥२८॥
सुधां पिबुन्नेक एव नर: स्यादजरामर: । देव्या: कथामृतं कुर्यात् कुलमेवाजरामरमारम् ॥२९॥
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरै: ॥३०॥
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥३१॥
अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मण: । फलाधिकप्रदानेन प्रोक्त: पुण्यप्रदो नृणाम् ॥३२॥
ये दुर्हृद: पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता  नास्तिकमार्गसक्ता नवाहयज्ञने  पुनन्ति ते कलौ ॥३३॥
परास्वदाराहरणेऽतिलुब्धा ये वै नरा: कल्मषभारभाज: । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धा ॥३४॥
तपोभिरुग्रैर्वततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥३५॥
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख  एष विप्रा: ॥३६॥
अतो भागवतं देव्या: पुराणं परत: परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥३७॥
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥३८॥
देवीप्रीतिप्रदं भक्त्य श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्योय स देव्या: पदवीं लभेत् ॥३९॥
देवीभागवतस्यापि श्लोकं श्लोमार्धमेव वा । भक्त्य यश्च पठेन्नित्यं स देव्या: प्रीतिभाग्भवेत् ॥४०॥
उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रुवणमात्रत: ॥४१॥
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरत: ॥४२॥
यस्तु भागवतं देव्या पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नर: ॥४३॥
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह॥४४॥
य एतां श्रृणुयाद् भक्त्या श्रीमद्भगवतीं कथाम् । भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥४५॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥४६॥
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥४७॥
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥४८॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुत: । य: पठेच्छुणुयाद् वापिस सिद्धिं लभते पराम् ॥४९॥
पठन् द्विजो वेदविदग्रणीर्भवेद् । बाहुप्रजातो धराणीपति: स्यात् वैश्य: पठन् वित्तसमृद्धिमेति शूद्रोऽपि श्रृण्वन स्वकुलोत्तम: स्यात् ॥५०॥
॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवश्रवणमाहात्म्यवर्णनं नाम प्रथमो‍‌ऽध्य:॥१॥

Saturday, June 2, 2012

Dashian Tika Mantra


दशैँमा टीका लगाइदिने मन्त्र

आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयं राघवे ।
ऐश्वर्य नहुषे गतिश्च पवने मानञ्च दुर्योधने ॥
शौर्य शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते ।
विज्ञानं विदुरे भवन्ति भवतां कीर्तिश्च नारायणे ॥
लक्ष्मीस्ते पंकजश्री निवसतु भवने भारती कण्ठदेशे
बर्द्धन्तां बन्धुवर्गा: सकलरिपुगणा यान्तु पातालदेशम् ।
देश देशे च कीर्ति: प्रसरतु भवतां कुन्दपुष्पेन्दुशुभ्रा
जीव त्वं पुत्रपौत्रै: सकलसुखयुतैर्हायनानां शलैश्व ॥
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजीरत्न धनधान्यसमृद्धिरस्तु ।
ऐश्वर्यमस्तु वलमस्तु रिपुक्षयोSस्तु सन्तानसौख्यशततं हरिभक्तिस्तु ॥
मन्त्रार्था: सफला: सन्तु पूर्णा: सन्तु मनोरथा: ।
शत्रुंणा बुद्धिनाशोSस्तु मित्राणांमुदयस्तव ॥
अव्याधिना शरीरेण मनसा च निरामया ।
पूरयन्नर्थिनामाशां त्वं जीव शरदांशतम् ॥
भद्रमस्तु शिवंचास्तु महालक्ष्मी प्रसीदतु ।
रक्षन्तु त्वां सदां: देवा आशीष: सन्तु सर्वदा ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥




Please visit Dashian Tika Slok Here

Dashain Tika Slok


विजया दशमी को टिका लगाउँदाको श्लोक
आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयं राघवे ।
ऐश्वर्य नहुषे गतिश्च पवने मानञ्च दुर्योधने ॥
शौर्य शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते
विज्ञानं विदुरे भवन्ति भवतां कीर्तिश्च नारायणे ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥
जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥
ब्रह्मा करोतु दीर्घायुर्विष्णु: करोतु सम्पद: ।
हरो हरतु पापानि गात्रं रक्षतु चण्डिका ॥
आवाहनं न जानामि न जानामि समर्पूणम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥

Please visit my previous blog on Dashain Mantra Here