सदाशिवको विभिन्न स्वरूपोहरू ध्यान
भगवान् सदा शिव
सत्यानन्दमनन्तबोधममलं ब्रह्यादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥
परमात्माप्रभु शिव
अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ।।
मङ्गलस्वरूप भगवान् शिव
करोतु किमपि स्फरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मङ्गलम् ॥
भगवान् अर्धनारिश्र्वर
अर्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रंणमामि रूपम् ॥
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहु: करुणाकटाक्षविभवौ स्वर्गापवर्गाभिधौ ।
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्तियं योगिनस्तस्मै शैलसुताञ्चिर्धवपुषे शश्र्वन्नमस्तेजसे ॥
भगवान् शंकर
सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्यनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥
गौरीपति भगवान् शिव
मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि ॥
महामहेश्वर
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
पञ्चमुख सदाशिव
शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥
अम्बिकेश्वर
पञ्चाननं प्रबलपञ्चविनोदशीलं सम्भावये मनसि शंकरमम्बिकेशम् ॥
पार्वतीनाथ भगवान् पञ्चानन
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
भगवान् महाकाल
लोकानामदिदेव: स जयतु भगवाञ्छ्रीमहाकालनामा बिभ्राण: सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालम् ॥
श्रीनीलकण्ठ
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञचाननं सुन्दरं व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥
पशुपति
हस्ताब्जैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं दंष्ट्राभीमचतुर्मुखं पशपतिं दिव्यास्त्ररूपं स्मरेत् ॥
भगवान् दक्षिणामूर्ति
आसीननश्वन्द्रखण्डप्रतिघटितजट: क्षीरगौरस्त्रनेत्रो दद्यादद्यौ: शुकाद्यैर्मुनिभिरभिवृतो भावशद्धिं भवो व: ॥
महामृत्युञ्जय
अंकन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥
हस्ताम्भोजयुगस्थकुम्भयुगलादुद्धत्य तोयं शिर: सिञ्चन्तं करयोर्युगेन दधन स्वाङ्के सकुम्भौ करौ ।अक्षस्त्रङ् मृगस्तमम्बुजगतं मूर्धस्थचन्द्रस्त्रव त्पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥
1 comment:
Hi. I like your blog. Shiva is The Supreme Lord. But perhaps the Roman transliteration and the english translation accompanying the nagari would be a fantastic addition.
aim nama klIm sivaya sou
Post a Comment