Saturday, January 24, 2009

Kalabhairavashtakam - Kantipur (कालभैरवाष्टकम्)

Kalabhairavashtakam - Kantipur (कालभैरवाष्टकम्)

This is the Kalabhairavashtakam (कालभैरवाष्टकम्) for the KalaBhairav of Nepal. 



॥अथ कालभैरवाष्टकम्॥

श्रीगणेशाय नमः ।
देवराजसेव्यमानपावनांघ्रिपंकजं । व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् ॥
नारदादियोगिवृन्दवन्दितं दिगंबर । कान्तिकापुराधिनाथकालभैरवं भजे ॥१॥
भानुकोटिभास्वरं भावाब्धितारकं परं । नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ॥
कालकालमम्बुजाक्षमक्षशूलमक्षरं । कान्तिकापुराधिनाथकालभैरवं भजे ॥२॥
शूलटंकपाशदण्डपाणिमादिकारणं । श्यामकायमादिदेवमक्षरं निरामयम् ॥
भीमविक्रमं प्रभुं विचित्रतांडवप्रियं । कान्तिकापुराधिनाथकालभैरवं भजे ॥३॥
भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं । भक्तवत्सलं स्थितं समस्तलोकविग्रहं ।
विनिक्कणन्मनोज्ञहेमकिंकिणीलसत्कटिं । कान्तिकापुराधिनाथकालभैरवं भजे ॥४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशकं । कर्मपाशमोचकं सुशर्मदायकं विभुं ॥
स्वर्णवर्णशेषपाशशोभितांगमण्डलं । कान्तिकापुराधिनाथकालभैरवं भजे ॥५॥
रत्न५पादुकाप्रभाभिरामपादयुग्मकं । नित्यमद्वितीयमिष्टदैवतं निरंजनम् ॥
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं । कान्तिकापुराधिनाथकालभैरवं भजे ॥६॥
अट्टाहासभिन्नपद्मजाण्डकोशसंततिं । दृष्टिपातनष्टपापजालमुग्रशासनं ॥
अष्टसिद्धिदायकं कपालमालिकाधरं । कान्तिकापुराधिनाथकालभैरवं भजे ७॥
भूतसंघनायकं विशालकीर्तिदायकं । काशिवासलोकपुण्यपापशोधकं विभुं ॥
नीतिमार्गकोविदं पुरातनं जगत्पतिं । कान्तिकापुराधिनाथकालभैरवं भजे ॥८॥
कालभैरवाष्टकं पठन्ति ये मनोहरं । ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं ॥
शोकमोहदैन्यलोभकोपतापनाशनम् । प्रयान्ति कालभैरवांघ्रिसन्निधि नरा ध्रुोवम् ॥९॥

॥इति कालभैरवाष्टकम् सम्पूर्णम्॥

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips




No comments: