In this blog I have tried to post some of the Sanskrit stuff that of course RELIGIOUS. Here you will find Mantras, Bhajans, along with Mp3 and Vidoes. ॐ नम: शिवाय Aum Namah Shivya Jai Bole Sankar, Jai Maa Adi Shakti जय भोले शंकर, जय आदी शक्ती जय पशुपतिनाथ !!!
Saturday, September 4, 2010
Shree Shiva Chalisa
Friday, August 27, 2010
baglamukhi Kavach श्री बगलामुखी कवचम्
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥१॥
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥२॥
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्व्वदा ॥४॥
रक्षांकरोतु स् र्व्वत्र गृहेरणये सदा मम ॥५॥
मन्त्रराज: सदा रक्षांकरोतु मम सर्व्वदा ॥६॥
मुखी वर्ण्णद्वयम्पातु लिंगम्पे मुष्कयुग्मकम् ॥७॥
बाचम्मुखन्तथा पादं षड्वर्ण्णाल परमेश्वरी ॥८॥
स्तम्भयेति पदम्पृष्ठम्पातुवर्ण्णत्रयम्मम ॥९॥
पादोद् ध् र्व सर्व्वदा पातु बुद्धि पादतले मम ॥१०॥
हीं बीजं सर्व्वदा पातु बुद्धीन्द्रियवचांसि मे ॥११॥
ब्राही पवर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥१२॥
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥
उद् ध् र्वम्पातु महालक्ष्मी पाताले शारदावतु ॥१४॥
राजद्वारे महादुर्ग्गे पातु मांगणनायक: ॥१५॥
द्विभुजा रक्तवसना: सर्व्वाभरणभूषिता: ॥१६॥
इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥१७॥
अपुत्रो लभते पुत्रन्धींर शूरं शतायुषम् ॥१८॥
जपिखा मन्त्रराजन्तु ध्वात्वा श्रीबगलामुखीम् ॥१९॥
Sunday, March 14, 2010
शिव ताण्डव स्तुति: Shiva Tandav Stuti
ब्रह्मन्नुन्नय दुरमात्मभुवनं नाथस्य नो नृत्यत: शम्भो संकटमेतदित्यवतु व: प्रोत्सारणा नन्दिन: ॥१॥
भृङ्गापिङ्गजटाटवीपरिसरोद् गङ्गोर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवतान्न: श्रेयसे ताण्डवम् ॥२॥
येषामुच्छलतां जवेन झटिनि व्यूहेषु भूमीभृतामुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकिता ॥३॥
खेलत्पिच्छालिकेकाकलकलकलितं क्रौञ्चभिद् बर्हियूनो हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धुनोतु ॥४॥
_______________________________
Wednesday, February 3, 2010
उच्छिष्टगणेशस्तवराज
श्री गणेशाय नम: ।
देव्युवाच ।
पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्ण भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च॥१॥
केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥२॥
षडक्षरात्मानसनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥
भवारूयदावानलदह्यमानं भक्तं स्ववीयं परिषिञ्चते य: ।
गण्डस्रुताम्भोभिरनम्यतुल्यं वन्दे गणेशं च तमोsरिनेत्रम् ॥५॥
शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्ववीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणणेsवतान्न: ॥६॥
पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतुहलेन ।
वुहर्तुकाम: स महीध्रपुत्र्या निवारित: पातु सदा गजास्य: ॥७॥
लम्बोदरो देवकुमारसङ्घै क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयत: स पायात् ॥८॥
आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेश: ॥९॥
निरन्तरं संकृतदानपट्टे लग्नां तु गुञ्जद् भ्रमरावलीं वै ।
तं श्रीत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥१०॥
विश्वेशमौलिस्थितजह् नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्ववीयं प्रपूजयन्हस्तिमुख: स पायात् ॥११॥
स्तोम्बेरमास्यं घृसृणाङ्गरागं सिन्दूरपूरारूणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥१२॥
सभीष्मातुर्निजपुष्करेण जलं समादाय कुचौस्वमातु: ।
प्रक्षालयामास षडास्यणीतौ स्वार्थं मुदेsसौ कलभाननोsस्तु ॥१३॥
सिञ्चाम नागं शिशुभावमापतं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकबन्द्यं प्रणमामि विघ्नम् ॥१४॥
आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥१५॥
हेरम्ब उद्यद्रविकोटिकान्तं: पञ्चाननेनापि विचुम्बितास्य: ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथयास सदा गजास्य: १६॥
द्वैपायनोक्तानि स निश्चयेन स्वदन्यकोट्या निखिलं लिखिरत्वा ।
दन्तं पुराणं शूभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥१७॥
क्रिडातटान्ते जलधाविभास्ये वेलाजले लम्बपति: प्रभीत: ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥१८॥
वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्य: स्थाणे: परं रूपामसौ स पायात् ॥१९॥
इमां स्तुतिं य: पठतीह भक्त्या समाहितप्रीतिरतीव शुद्ध: ।
संसेव्यते चेन्दिरया नितान्तं दारिद्रयसङ्घं स विदारयेन्न: ॥२०॥
॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवाद उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥_______________________________