श्रीकृष्ण: शरणं मम
Shree Krishna Saranam Mamah
श्रीकृष्ण एव शरणं मम श्रीकृष्ण एव शरण् ॥
(ध्रुवपदम्)
गुणमय्येषा न यत्र माया न च जनुरपि मरणम् ।
यद्यतय: पश्यन्ति समाधौ परममुदाभरणम् ॥१॥
यद्धेतोर्निवहन्ति बुधा ये जगति सदाचरणम् ।
सर्वापद्भ्यो विहितं महतां येन समुद्धरणम् ॥२॥
भगवति यत्सन्मतिमुद्वहतां हृदयतमोहरणम् ।
हरिपरमा यद्भजन्ति सततं निषव्य गुरुचरणम् ॥३॥
असुरकुलक्षतये कृतममरैर्यस्य सदादरणम् ।
भुवनतरूं धत्ते यन्निखिलं विविधविषयपर्णम् ॥४॥
अवाप्य यद् भूयोsच्युतभक्ता न यान्ति संसरणम् ।
कृष्णलालजीद्विजस्य भूतात्तदघहरस्मरणम् ॥५॥
॥ इति श्रीकृष्णलालजीद्विजविरचितं ‘श्रीकृष्ण: शरणं मम’ नामक स्तोत्रं समाप्तम् ॥
What is the true meaning of Shree Krishna Sharanam Ma Mah?
In the Mahabharat war, when Arjun becomes discouraged and despondent, laying down his weapons at the thought of having to kill his relatives, Lord Krishna enlightens him with the Knowledge of the True Self (i.e. Lord Krishna gives him Self-Realization); the Knowledge of his real identity.
Source: getacd