Showing posts with label Chandi. Show all posts
Showing posts with label Chandi. Show all posts

Tuesday, April 21, 2026

श्री मंगलचण्डिका स्तोत्रम्
Shri Mangalachandika Stotram – With English Translation

(From Brahma‑Vaivarta Purana, Prakriti‑Khanda)


॥ मन्त्रः ॥

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ।
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः ॥

This is the 21‑syllable sacred mantra of Devi Mangalachandika, invoking auspiciousness, protection, and fulfillment of desires.

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥

This mantra is like a wish‑fulfilling tree; by chanting it one million times, perfection of the mantra is attained.

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः ।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥

One who attains mantra‑siddhi becomes capable of fulfilling all desires. Now listen to the meditation on the Devi.


॥ ध्यानम् ॥

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥

Meditate on the Devi as a sixteen‑year‑old, eternally youthful, full of all divine qualities, with a gentle and enchanting form.

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥

Her complexion is like white champaka flowers, radiant like millions of moons, adorned with pure garments and jewels.

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥

Her hair is decorated with jasmine garlands; her lips are red like bimba fruit; her face shines like an autumn lotus.

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् ॥

Her gentle smile radiates compassion; her eyes resemble blue lotuses. She is the sustainer of the universe and giver of all prosperity.

संसारसागरे घोरे पोतरूपां वरां भजे ।
I worship the Devi who is the boat that carries beings across the ocean of worldly existence.


॥ शंकर उवाच ॥

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥

O Mother of the universe, protect us! O Mangalachandika, remover of calamities, You bring joy and auspiciousness.

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ।
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥

Expert in granting joy and auspiciousness, O Chandika, embodiment of all that is blessed.

मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।
सतां मङ्गलदे देवि सर्वेषां मङ्गलालये ॥

O Mangalā, worthy of worship, source of all auspiciousness, refuge of auspiciousness for all beings.

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् ॥

You are worshipped especially on Tuesdays and by kings of the Manu lineage.

मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले ।
संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ॥

O Devi, presiding deity of auspiciousness, foundation of worldly blessings, giver of liberation.

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ॥

You are the essence of auspiciousness, beyond all actions, worshipped every Tuesday.

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥

By this hymn, Shiva praised Mangalachandika and worshipped her every Tuesday.

देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् ॥

One who listens to this hymn with devotion attains lasting auspiciousness and is freed from misfortune.


॥ इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् ॥


Labels:

Mangalachandika Stotram, मंगलचण्डिका स्तोत्र, Devi Stotram, Sanskrit Stotra, Chandi, Durga, Shakti, Tuesday Worship, Mangala Graha, Brahma Vaivarta Purana, Prakriti Khanda, Hindu Devotional, Sanatana Dharma, मंगल स्तोत्र

Thursday, June 7, 2012

Chapter 1 : श्रीमद्देवी भागवतमहापुराणम् Shrimad Devi Bhagavatam


श्रीमद्देवी भागवतमहापुराणम्

अथ प्रथमा‍‌ऽध्याय:
सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रिडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवत वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधितालङ्करोतु ॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं ससस्वतीं व्यास ततो जयमुदीरयेत् ॥२॥
ऋषय ऊचु:
सूत जीवसमा बह्वीर्यस्त्वं श्रावयसीह न: । कथा मनोहरा: पुण्या व्यासशिष्य महामते ॥३॥
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भतम् । अवतारकथोपेतमस्माभिर्भक्तित: श्रुतम् ॥४॥
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्य माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥५॥
अधुना श्रोतुमिच्छाम: पावनात् पावनं परम् । नॄणामनायासे सर्वाश: ॥६॥
तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवा: । कलावि परं त्वत्तो न विद्म: संशयच्छिदम् ॥७॥
सूत उवाच
साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वाशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषत: ॥८॥
तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रुयते सम्यग् देवीभागवतं नरै: ॥९॥
तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशु: पाप्तो देवीभागवताभिध: ॥१०॥
तावत् क्लेशावहं नॄणामुपसर्गमहातम: । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगु: ॥११॥
ऋषय ऊचु:
सूत सूत माहभा वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च क: ॥१२॥
कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवै: श्रुतं पुर्वं कान्कान्कामानवाप्नुयु: ॥१३॥
सूत उवाच
विष्णोरंशो मुनिर्जात: सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुर: शिष्यानध्यापयत्युरा ॥१४॥
व्रात्यानां द्विजबन्धूनां वेदेष्वनधीकारिणाम् । स्त्रीणां दुर्मेधसा नॄणां धर्मज्ञानं कथं भवेत् ॥१५॥
विचार्यैतत् तु मनसा भगवान् बादरायण: । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥१६॥
अष्टादश पुराणानि स कृत्वा भगवान। मुनि: । मामेवाध्यापयामास भारतख्यानमेव च ॥१७॥
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥१८॥
पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्त संशुध्यै राज्ञा भागवतं श्रुतम् ॥१९॥
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानत: ॥२०॥
नवाहयज्ञे सम्पूर्णे परीक्षिदपि भूपति: । दिव्यरूपधरो देव्या: सालोक्यं तत्क्षणादगात् ॥२१॥
पितुर्दिव्यां गतिं राजा विलोक्य जनमेजय: । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥२२॥
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥२३॥
ये श्रृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभी: ॥२४॥
दिनमर्ध तदर्ध वा मुहुर्तं क्षणमेव वा । ये श्रृण्वन्ति नरा भक्त्या न तेषां दुर्गति: क्वचित् ॥२५॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नर: ॥२६॥
कृतादौ बहवो धर्मा: कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥२७॥
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥२८॥
सुधां पिबुन्नेक एव नर: स्यादजरामर: । देव्या: कथामृतं कुर्यात् कुलमेवाजरामरमारम् ॥२९॥
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरै: ॥३०॥
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥३१॥
अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मण: । फलाधिकप्रदानेन प्रोक्त: पुण्यप्रदो नृणाम् ॥३२॥
ये दुर्हृद: पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता  नास्तिकमार्गसक्ता नवाहयज्ञने  पुनन्ति ते कलौ ॥३३॥
परास्वदाराहरणेऽतिलुब्धा ये वै नरा: कल्मषभारभाज: । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धा ॥३४॥
तपोभिरुग्रैर्वततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥३५॥
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख  एष विप्रा: ॥३६॥
अतो भागवतं देव्या: पुराणं परत: परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥३७॥
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥३८॥
देवीप्रीतिप्रदं भक्त्य श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्योय स देव्या: पदवीं लभेत् ॥३९॥
देवीभागवतस्यापि श्लोकं श्लोमार्धमेव वा । भक्त्य यश्च पठेन्नित्यं स देव्या: प्रीतिभाग्भवेत् ॥४०॥
उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रुवणमात्रत: ॥४१॥
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरत: ॥४२॥
यस्तु भागवतं देव्या पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नर: ॥४३॥
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह॥४४॥
य एतां श्रृणुयाद् भक्त्या श्रीमद्भगवतीं कथाम् । भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥४५॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥४६॥
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥४७॥
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥४८॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुत: । य: पठेच्छुणुयाद् वापिस सिद्धिं लभते पराम् ॥४९॥
पठन् द्विजो वेदविदग्रणीर्भवेद् । बाहुप्रजातो धराणीपति: स्यात् वैश्य: पठन् वित्तसमृद्धिमेति शूद्रोऽपि श्रृण्वन स्वकुलोत्तम: स्यात् ॥५०॥
॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवश्रवणमाहात्म्यवर्णनं नाम प्रथमो‍‌ऽध्य:॥१॥

Friday, February 25, 2011

Mangala Chandika Stotram

मंगल चण्डिका स्तोत्रम्
॥शंकर उवाच॥
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके । हारिके विपदां राशेर्हर्ष-मंगल-कारिके ॥
हर्ष-मंगल-दक्षे च हर्ष-मंगल-चण्डिके । शुभे मंगल-दक्षे च शुभ-मंगल-चण्डिके ॥
मंगले मंगलार्हे च सर्व-मंगल-मंगले । सतां मंगलदे देवि सर्वेषां मंगलालये ॥
पूज्या मंगलवारे च मंगलाभीष्ट-दैवते । पूज्ये मंगल-भूपस्य मनुवंशस्य संततम् ॥
मंगलाधिष्ठातृदेवि मंगलानां च मंगले । संसार-मंगलाधारे मोक्ष-मंगल-दायिनी ॥
सारे च मंगलाधारे पारे च सर्वकर्मणाम् । प्रतिमंगलवारे च पूज्ये च मंगलप्रदे ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मंगलचण्डिकाम्
। प्रतिमंगलवारे च पूजां कृत्वा गतः शिवः ॥
देव्याश्च मंगल-स्तोत्रं यं श्रृणोति समाहितः । तन्मंगलं भवेच्छश्वन्न भवेत् तदमंगलम् ॥
प्रथमे पूजिता देवी शंभुना सर्वमंगला । द्वितीये पूजिता देवी मंगलेन ग्रहेण च ॥
तृतीये पूजिता भद्रा मंगलेन नृपेण च । चतुर्थे मंगले वारे सुन्दरीभिश्च पूजिता ॥
पञ्चमे मंगलाकाङ्क्षैर्नरैर्मंलचण्डिका ॥
पूजिता प्रतिविश्वेषु विश्वेशै: प्रतिमा सदा । तत: सर्वत्र संपूज्या सा बभूव सुरेश्वरी ॥
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने । देव्याश्च मंगलस्तोत्रं य: शृणोति समाहित: ॥
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् । वर्धन्ते तत्पुत्रपौत्रा मंगलं च दिने दिने ॥

(ब्रह-वैवर्त्त-पुराण । प्रकृतिखण्ड । ४४ । २९-४१)





  
  

Tuesday, February 23, 2010

Shree Durga Kavacham श्रीदुर्गा देवी कवचम्


Shree Durga Kavacham

श्रीदुर्गा देवी कवचम्
श्रीगणेशाय नम:
श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥२॥
उमादेवि शिर: पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी॥३॥
सुगन्धा नासिके पातु वदनं सर्वधारिणी ।
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥४॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
हृदयं ललितादेवी उदरं सिंहवाहनी ॥५॥
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।
महाबला च जङ्घे द्वे पावौ भूतलवासिनी ॥६॥
एवं स्थिताsसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।
रक्ष मां सर्वगात्रेषु दुर्गा देवि नमो
sस्तुते ॥७॥
॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचम् सम्पूर्णम् ॥ 


_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Sunday, February 21, 2010

ऋग्वेदोक्त देवीसूक्तम् Rig Vede Devi Suktam

ऋग्वेदोक्त देवीसूक्तम्
                           -  Rig Veda 10.8.125

ॐ अहमित्यष्टर्चस्य सूक्त स्य वागाम्भृणी ऋषि: सच्चित्सुखात्मक: सर्वगत: परमात्मा देवता, द्वितीयाया ऋचो जगती, शिष्टानां त्रिष्टुप् छन्द:, देवीमाहात्म्य पाठे विनियोग:।

ध्यानम्

ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजै: शङ्खं चक्रधनु:शरांश्च दधती नेत्रैस्त्रिभि: शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥

देवीसूक्तम्

Vak Uwach
वाक् उवाच 

 ॐ  अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवै:।
अहं मित्रावरुणोभा बिभ‌र्म्यहमिन्द्राग्नी अहमश्रि्वनोभा॥१॥

Om ! I move along with the Rudras, Vasus, Adithas and all other Devas. I bear the Mithra, Varuna, Indra, Agni and the two Ashwini Devas. [1]

अहं सोममाहनसं बिभ‌र्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥२॥

I bear the Soman who is the destroyer of enemies and the Twashta, Bushan and Bagan. I give wealth to the performer of the Yajna or Sacrifice who submits sacrificial things in the Yajna, who pours the Soma rasa, and who makes the Devas receive the Havis or their due of the Sacrifice. [2]

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां मा देवा व्यदधु: पुरुत्रा भूरिस्थात्रां भूय्र्यावेशयन्तीम्॥३॥

I am the Queen of the Universe; I give wealth to those who worship me. I am the all-knowing one and the prime one among the worshippable deities. I enter many bodies as the Atma, taking various forms and with different manifestations, in various ways. Hence, the Devas have incorporated me in various places.[3]

मया सो अन्नमत्ति यो विपश्यति य: प्राणिति य ई श्रृणोत्युक्त म्।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥४॥

That one who eats food, who sees, breathes, and hears whatever is said, he does all that only through me (my powers). Those who do not understand me, die. O dear one ! (to the worshipper or devotee), hear this singing of mine with concentration. [4]

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभि:।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥५॥

"All these are me (and various manifestations of mine). I am the one worshipped by the Devas and the earthly beings. If I like someone (for his meditation towards me), I make him the greatest, the most intelligent as a Sage, and as a Self-Realised soul. [5]

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृणोम्यहंद्यावापृथिवीआविवेश॥६॥

I bend the bow of the Rudra to kill all those enemies who detest all good things. I fight these bad elements / enemies only for the people. I enter, pervade and persist throughout the earth and the sky.[6]

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्त: समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां व‌र्ष्मणोप स्पशमि॥७॥

I created the sky, which is (as a shelter) above the earth and which is fatherly for all beings. My creativity (power) is within the Ocean and waters. By that, I am present in all the worlds. And I touch the sky with my body.[7]

अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव॥८॥

When I start creating all the worlds, I function like the air (so fast in the function). I am taller and higher than the Sky. I am greater than this earth. Such is my valor, might, prowess and greatness. [8]

Note: Vak  - the daughter of Rishi Ambhrina, she had connection with Devi.

_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Friday, January 29, 2010

Durga Dhyan Mantra दुर्गाध्यानम्

दुर्गाध्यानम् 

Durga Dhyan Mantra

जटाजूटसमायुक्तामर्धेन्दुकृरलक्षणाम् ।
लोचनात्रयसंयुक्तां पद्नेन्दुसदृशाननाम् ॥१॥

आतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥२॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥

Attend to Durga, Who is associated with a hair-bun of matted locks, Who has made eighth-night moon as a forehead-mark, Who has three eyes, Who has a face resembling a moon and a lotus, Whose is radiant with light of blue colour (that of linseed flower), Who is well respected, Whose eyes are conducive, Who is full of youthful energy, and Who is decorated by all the ornaments. [1—2]


She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.

सुचारुवदनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानम् महिषासुरमर्दिनीम् ॥३॥

तीक्ष्णबाणं तथा शक्ति वामतोsपि निबोधत ।
त्रिशुलं दक्षिणे दद्यात्खङ्गं चक्र क्रमादध: ॥४॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥

Attend to Durgā, Who has a beautiful and conducive face, Who is having enlarged breasts due to full milk, Who is the killer of Mahiṣāsura while standing at the point of rout of the three worlds, Who should be given trident in right hand, Who should hold scymitar and cakra in that order in other right hands, Who should have a sharp arrow and śakti in the left hands. [3—4]

She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.

खेटकं पूर्णचापं च पाशमङ्कुशमूर्द्धजम् ।
घण्टां च परशुं वापि वामत: सन्निवेशयेत् ॥५॥

अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ।
शिरश्छेदोद्भवं तद्वद्दानवं खङ्गपाणोनम् ॥६॥

A shield, a full bow, a string, a stick, a high flag, a bell, or an axe can be rested in Her left hands. Beneath that, a buffalo with a head belonging to it should be shown. One should show the demon as emerging out from the body of beheaded buffalo, holding a scymitar in hands.[5—6]

हृदि शुलेन निर्भिन्नं निर्दयन्तं विभूषितम् ।
रक्तरक्तीकृताङ्गं च रक्तविस्फारितेक्षणम् ॥७॥

वेष्टितं नागपाशेन भृकुटीभीषणाननम् ।
सपाशवामहस्तेन धृतकेशं च दुर्गया ॥८॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥

One should show his heart as pierced by a spear, without mercy. One should decorate his body with blood of red color and his red eyes should be opened wide. One should show him as tied with a nāgapāśa (snake-chain), and his eyebrows should be meeting on a scary head. One should show his hairs held together by the left hand of Durgā. [7—8] 

She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.

वमद्रुधिरवक्तं च देव्या: सिंहं प्रदर्शयेत् ।
देव्यास्त दक्षिणं पादं समसिंहोपरिस्थितम् ॥९॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥

किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठो महिषोपरि ।
स्तूयमानं च तद्रूपममरै: सन्निवेशयेत् ॥१०॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥

॥ इति ॥

One should show the lion of Goddess as drooling with blood on face. The right foot of Goddess should be situated in the middle above of lion. Somewhat high and somewhat left should be the left thumb (of Goddess) above the buffalo. One should have this form in eulogy by immortal demi-gods.[9—10]


She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.











_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Thursday, April 2, 2009

Shri Devi Atharvasheersham (श्रीदेव्यथर्वशीर्षम् )

श्रीदेव्यथर्वशीर्षम्

ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ।।१।।

साब्रवीत् - अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ।।२।।

अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।।३।।

वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक् चाहम् ।।४।।

अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वेदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ।।५।।

अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ।।६।।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । अहं राष्ट्री सङ्मनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स दैवीं सम्पदमाप्नोति ।।७।।

ते देवा अब्रुवन् –

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।।८।।

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ।।९।।

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ।।१०।।

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ।।११।।

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ।।१२।।

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ।।१३।।

कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ।।१४।।

एषाऽऽत्मशक्तिः । एषा विश्वमोहिनी । पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।।१५।।

नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः ।।१६।।

सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतींसि । कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।।

पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ।।१७।।

वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधनम् ।।१८।।

एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ।।१९।।

वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् ।
सूर्योऽवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः ।
नारायणेन संमिश्रो वायुश्चाधरयुक् ततः ।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ।।२०।।

हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् ।
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ।।२१।।

नमामि त्वां महादेवीं महाभयविनाशिनीम् ।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ।।२२।।

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अतएवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ।।२३।।

मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।।२४।।

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ।।२५।।

इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति । इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति - शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।

दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ।।२६।।

सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति । स महामृत्युं तरति य एवं वेद । इत्युपनिषत् ।।


Get this widget | Track details | eSnips Social DNA

_______________________________