Showing posts with label Mangala chandika stotram. Show all posts
Showing posts with label Mangala chandika stotram. Show all posts

Friday, February 25, 2011

Mangala Chandika Stotram

मंगल चण्डिका स्तोत्रम्
शंकर उवाच
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके हारिके विपदां राशेर्हर्ष-मंगल-कारिके
हर्ष-मंगल-दक्षे हर्ष-मंगल-चण्डिके शुभे मंगल-दक्षे शुभ-मंगल-चण्डिके
मंगले मंगलार्हे सर्व-मंगल-मंगले सतां मंगलदे देवि सर्वेषां मंगलालये
पूज्या मंगलवारे मंगलाभीष्ट-दैवते पूज्ये मंगल-भूपस्य मनुवंशस्य संततम्
मंगलाधिष्ठातृदेवि मंगलानां मंगले संसार-मंगलाधारे मोक्ष-मंगल-दायिनी
सारे मंगलाधारे पारे सर्वकर्मणाम् प्रतिमंगलवारे पूज्ये मंगलप्रदे
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मंगलचण्डिकाम्
प्रतिमंगलवारे पूजां कृत्वा गतः शिवः
देव्याश्च मंगल-स्तोत्रं यं श्रृणोति समाहितः तन्मंगलं भवेच्छश्वन्न भवेत् तदमंगलम्
प्रथमे पूजिता देवी शंभुना सर्वमंगला । द्वितीय पूजिता देवी मंगलेन ग्रहेण च ॥
तृतीये पूजिता भद्रा मंगलेन नृपेण च । चतुर्थे मंगले वारे सुन्दरीभिश्च पूजिता ॥
पञ्चमे मंगलाकाङ्क्षैर्नरैर्मंलचण्डिका ॥
पूजिता प्रतिविश्वेषु विश्वेशै: प्रतिमा सदा । तत: सर्वत्र संपूज्या सा बभूव सुरेश्वरी ॥
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने । देव्याश्च मंगलस्तोत्रं य: शृणोति समाहित: ॥
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् । वर्धन्ते तत्पुत्रपौत्रा मंगलं च दिने दिने ॥

(ब्रह-वैवर्त्त-पुराण प्रकृतिखण्ड ४४ २९-४१)