In this blog I have tried to post some of the Sanskrit stuff that of course RELIGIOUS. Here you will find Mantras, Bhajans, along with Mp3 and Vidoes. ॐ नम: शिवाय Aum Namah Shivya Jai Bole Sankar, Jai Maa Adi Shakti जय भोले शंकर, जय आदी शक्ती जय पशुपतिनाथ !!!
Tuesday, September 11, 2012
Lord Shiva and Lord Vishnu are the same
कदाचिद् देवदेवो मां ध्यायत्यमितविक्रम: ।ध्यायाम्यहं च देवेशं शंकर त्रिपुरान्तकम् ॥ शिवस्याहं प्रिय: प्राण: शंकरस्तु तथा मम । उभयोरन्तरं नास्ति मिथ: संसक्तचेतस: ॥ नरक यान्ति ते नूनं ये द्विषन्ति महेश्वरम् । भक्ता मम विशालाक्षि सत्यमेतद् ब्रवीम्यहम् ॥
भगवान् विष्णु बोले – प्रिये ! मैं हृदयमें जिनका ध्यान कर रहा हूँ, उनका परिचय देता हूँ, सुनो । पार्वतीपति भगवान् शंकर सबसे प्रधना माने जाते हैं । तुरंत प्रसन्न हो जाना उनका स्वाभाविक गुण है ! उन देवधिदेवके पराक्रमकी कोई सीमा नहीं है । कभी तो ऐसा होता है कु त्रिपुरासुरका वध करनेवाले वे देवेश मेरा ध्यान करते हैं और मैं उनका करता हूँ । उनका प्रिय प्राण मैं हूँ और मेरे प्रिय प्राण वे हैं । हम दोनोंका चित्त परस्पर गुँथा हुआ है । अत: दोनोंमें किंचिन्मात्र भेद नहीं समझना चाहिये । विशाललोचने ! जो भगवान् शंकरसे द्वेष करते हैं, वे मेरे भक्त ही क्यों न हों; किंतु नरकमें जाना उनके लिये अनिवार्य है । मैं यह बलकुल सत्य बता रहा हूँ ।
- श्रीमद्देवी भागवतमहापुराणम् ६\१८\४५-४७
Thursday, June 7, 2012
Chapter 1 : श्रीमद्देवी भागवतमहापुराणम् Shrimad Devi Bhagavatam
श्रीमद्देवी भागवतमहापुराणम्
अथ प्रथमाऽध्याय:सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रिडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवत वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधितालङ्करोतु ॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं ससस्वतीं व्यास ततो जयमुदीरयेत् ॥२॥
ऋषय ऊचु:
सूत जीवसमा बह्वीर्यस्त्वं श्रावयसीह न: । कथा मनोहरा: पुण्या व्यासशिष्य महामते ॥३॥
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भतम् । अवतारकथोपेतमस्माभिर्भक्तित: श्रुतम् ॥४॥
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्य माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥५॥
अधुना श्रोतुमिच्छाम: पावनात् पावनं परम् । नॄणामनायासे सर्वाश: ॥६॥
तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवा: । कलावि परं त्वत्तो न विद्म: संशयच्छिदम् ॥७॥
सूत उवाच
साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वाशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषत: ॥८॥
तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रुयते सम्यग् देवीभागवतं नरै: ॥९॥
तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशु: पाप्तो देवीभागवताभिध: ॥१०॥
तावत् क्लेशावहं नॄणामुपसर्गमहातम: । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगु: ॥११॥
ऋषय ऊचु:
सूत सूत माहभा वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च क: ॥१२॥
कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवै: श्रुतं पुर्वं कान्कान्कामानवाप्नुयु: ॥१३॥
सूत उवाच
विष्णोरंशो मुनिर्जात: सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुर: शिष्यानध्यापयत्युरा ॥१४॥
व्रात्यानां द्विजबन्धूनां वेदेष्वनधीकारिणाम् । स्त्रीणां दुर्मेधसा नॄणां धर्मज्ञानं कथं भवेत् ॥१५॥
विचार्यैतत् तु मनसा भगवान् बादरायण: । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥१६॥
अष्टादश पुराणानि स कृत्वा भगवान। मुनि: । मामेवाध्यापयामास भारतख्यानमेव च ॥१७॥
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥१८॥
पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्त संशुध्यै राज्ञा भागवतं श्रुतम् ॥१९॥
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानत: ॥२०॥
नवाहयज्ञे सम्पूर्णे परीक्षिदपि भूपति: । दिव्यरूपधरो देव्या: सालोक्यं तत्क्षणादगात् ॥२१॥
पितुर्दिव्यां गतिं राजा विलोक्य जनमेजय: । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥२२॥
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥२३॥
ये श्रृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभी: ॥२४॥
दिनमर्ध तदर्ध वा मुहुर्तं क्षणमेव वा । ये श्रृण्वन्ति नरा भक्त्या न तेषां दुर्गति: क्वचित् ॥२५॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नर: ॥२६॥
कृतादौ बहवो धर्मा: कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥२७॥
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥२८॥
सुधां पिबुन्नेक एव नर: स्यादजरामर: । देव्या: कथामृतं कुर्यात् कुलमेवाजरामरमारम् ॥२९॥
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरै: ॥३०॥
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥३१॥
अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मण: । फलाधिकप्रदानेन प्रोक्त: पुण्यप्रदो नृणाम् ॥३२॥
ये दुर्हृद: पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञने पुनन्ति ते कलौ ॥३३॥
परास्वदाराहरणेऽतिलुब्धा ये वै नरा: कल्मषभारभाज: । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धा ॥३४॥
तपोभिरुग्रैर्वततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥३५॥
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्रा: ॥३६॥
अतो भागवतं देव्या: पुराणं परत: परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥३७॥
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥३८॥
देवीप्रीतिप्रदं भक्त्य श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्योय स देव्या: पदवीं लभेत् ॥३९॥
देवीभागवतस्यापि श्लोकं श्लोमार्धमेव वा । भक्त्य यश्च पठेन्नित्यं स देव्या: प्रीतिभाग्भवेत् ॥४०॥
उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रुवणमात्रत: ॥४१॥
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरत: ॥४२॥
यस्तु भागवतं देव्या पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नर: ॥४३॥
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह॥४४॥
य एतां श्रृणुयाद् भक्त्या श्रीमद्भगवतीं कथाम् । भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥४५॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥४६॥
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥४७॥
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥४८॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुत: । य: पठेच्छुणुयाद् वापिस सिद्धिं लभते पराम् ॥४९॥
पठन् द्विजो वेदविदग्रणीर्भवेद् । बाहुप्रजातो धराणीपति: स्यात् वैश्य: पठन् वित्तसमृद्धिमेति शूद्रोऽपि श्रृण्वन स्वकुलोत्तम: स्यात् ॥५०॥
॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवश्रवणमाहात्म्यवर्णनं नाम प्रथमोऽध्य:॥१॥
Monday, March 12, 2012
Narayaneeyam - Dashaka 87- Sudama (Kuchela)
त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥१॥
कदाचिदूचे बत वृत्तिलब्धये रमापति: किं न सखा निषेव्यते ॥२॥
तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकानुपायनम् ॥३॥
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुन: ॥४॥
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्ष तदमर्षि कानने ॥५॥
कृतं कृतं नन्वियतेति संभ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥६॥
बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रह: ॥७॥
त्वदुक्तिलीलास्मितमग्नधी: पुन: क्रमादपश्यन्मणिदीप्रमालयम् ॥८॥
सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥९॥
त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥१०॥
Friday, September 23, 2011
Shri Strotram from Agni Purana
Friday, January 29, 2010
Durga Dhyan Mantra दुर्गाध्यानम्
दुर्गाध्यानम्
Durga Dhyan Mantra
जटाजूटसमायुक्तामर्धेन्दुकृरलक्षणाम् ।
लोचनात्रयसंयुक्तां पद्नेन्दुसदृशाननाम् ॥१॥
आतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥२॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥
Attend to Durga, Who is associated with a hair-bun of matted locks, Who has made eighth-night moon as a forehead-mark, Who has three eyes, Who has a face resembling a moon and a lotus, Whose is radiant with light of blue colour (that of linseed flower), Who is well respected, Whose eyes are conducive, Who is full of youthful energy, and Who is decorated by all the ornaments. [1—2]
She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.
सुचारुवदनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानम् महिषासुरमर्दिनीम् ॥३॥
तीक्ष्णबाणं तथा शक्ति वामतोsपि निबोधत ।
त्रिशुलं दक्षिणे दद्यात्खङ्गं चक्र क्रमादध: ॥४॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥
Attend to Durgā, Who has a beautiful and conducive face, Who is having enlarged breasts due to full milk, Who is the killer of Mahiṣāsura while standing at the point of rout of the three worlds, Who should be given trident in right hand, Who should hold scymitar and cakra in that order in other right hands, Who should have a sharp arrow and śakti in the left hands. [3—4]
She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.
खेटकं पूर्णचापं च पाशमङ्कुशमूर्द्धजम् ।
घण्टां च परशुं वापि वामत: सन्निवेशयेत् ॥५॥
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ।
शिरश्छेदोद्भवं तद्वद्दानवं खङ्गपाणोनम् ॥६॥
A shield, a full bow, a string, a stick, a high flag, a bell, or an axe can be rested in Her left hands. Beneath that, a buffalo with a head belonging to it should be shown. One should show the demon as emerging out from the body of beheaded buffalo, holding a scymitar in hands.[5—6]
हृदि शुलेन निर्भिन्नं निर्दयन्तं विभूषितम् ।
रक्तरक्तीकृताङ्गं च रक्तविस्फारितेक्षणम् ॥७॥
वेष्टितं नागपाशेन भृकुटीभीषणाननम् ।
सपाशवामहस्तेन धृतकेशं च दुर्गया ॥८॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥
One should show his heart as pierced by a spear, without mercy. One should decorate his body with blood of red color and his red eyes should be opened wide. One should show him as tied with a nāgapāśa (snake-chain), and his eyebrows should be meeting on a scary head. One should show his hairs held together by the left hand of Durgā. [7—8]
She is surrounded by eight Skaktis, namely- Ugrachandaa, Prachandaa, Chandograa, Chandanayikaa, Chandaa, Chandabati, Chandarupaa,Ati chandikaa.I pray to Her for the "Chaturbarga" (Dharma, Artha, Kama, Moksha)that is the goal for every human being.
वमद्रुधिरवक्तं च देव्या: सिंहं प्रदर्शयेत् ।
देव्यास्त दक्षिणं पादं समसिंहोपरिस्थितम् ॥९॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठो महिषोपरि ।
स्तूयमानं च तद्रूपममरै: सन्निवेशयेत् ॥१०॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चन्डा चण्डवती चैव चण्डरूपाति चण्डिका ॥
॥ इति ॥
One should show the lion of Goddess as drooling with blood on face. The right foot of Goddess should be situated in the middle above of lion. Somewhat high and somewhat left should be the left thumb (of Goddess) above the buffalo. One should have this form in eulogy by immortal demi-gods.[9—10]
Sunday, June 21, 2009
Bhadrakali Ashtakam Stuti भद्रकालीस्तुति:
ब्रह्माविष्णु ऊचतु:
नमामि त्वां विश्वकर्त्रीं परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥१॥
पूर्णां शुद्धां विश्वरूपा सुरूपां देवीं वन्द्यां विश्ववनद्यामपि त्वाम् ।
सर्वान्त:स्थामुत्तमस्थानसस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥२॥
मायातीतां मायिनीं वापि मायां भिमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥३॥
नो ते रूपं वेत्ति शीलं च धाम नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये विश्वाराध्ये सर्वलोकैकहेतुम् ॥४॥
द्यौस्ते शीर्षं नाभिदेशो नभश्च चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥५॥
वाक्यं देवा भूमिरेषा नितम्बं पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोsधर्मोकार्यं हि कोप: सृष्टिर्बोध: संहृतिस्ते तु निद्रा ॥६॥
अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं संध्ये द्वे ते भ्रूयुगं विश्वमूर्ति: ।
श्वासो वायुर्बावो लोकपाला: क्रीडा सृष्टि: संस्थाति: संहृतिस्ते ॥७॥
एवंभूतां देवि विश्वात्मिकां त्वां कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मात: पूर्ण ब्रह्मविज्ञानगम्ये दुर्गेsपारे साररूपे प्रसीद ॥८॥
॥ इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकालीस्तुती: सम्पूर्णा ॥
Saturday, May 23, 2009
Guru Gita Short Version गुरुगीता लघु
॥श्री गुरुपादुका पञ्चकम्॥
ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः।
आचार्य सिद्धेश्वर पादुकाभ्यो नमो नमः श्री गुरुपादुकाभ्यः॥
ऐङ्कार हृईङ्कार रहस्य युक्त श्रीङ्कार गूढार्थमहाविभूत्या॥१॥
ओङ्कार मर्म प्रतिपादिनीभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥२॥
होत्राग्नि हौत्राग्नि हविष्यहोत्र होमादि सर्वाकृति भासमानाम्।
यद् ब्रह्म तद्बोध वितारिणीभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥३॥
कामादि सर्पव्रज गारुडाभ्यां विवेक वैराग्य निधि प्रदाभ्याम्।
बोध प्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥४॥
अनन्त संसार समुद्र तार नौकायिताभ्यां स्थिरभक्तिदाभ्याम्।
जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥५॥
॥ॐ शान्तिः शान्तिः शान्तिः॥
॥अथ श्री गुरुगीता प्रारंभः॥
श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः। श्रीगुरुभ्यो नमः।
॥ॐ॥
अस्य श्रीगुरुगीतास्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः।
नानाविधानि छन्दांसि। श्रीगुरुपरमात्मा देवता।
हं बीजं। सः शक्तिः। क्रों कीलकं।
श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः।
॥अथ ध्यानम्॥
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणै-
विर्श्वोत्कीर्णमनेकदेहनिलयैः स्वच्छंदमात्मेच्छया॥
तद्योतं पदशांभवं तु चरणं दीपाङ्कुर ग्राहिणम्।
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम्॥
मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः।
॥अथ श्रीगुरुगीता॥
सूत उवाच --
कैलासशिखरे रम्ये भक्ति संधान नायकम्।
प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत॥१॥
श्री देव्युवाच --
ॐ नमो देव देवेश परात्पर जगद्गुरो।
सदाशिव महादेव गुरुदीक्षां प्रदेहि मे॥२॥
केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत्।
त्वं कृपं कुरु मे स्वामिन् नमामि चरणौ तव॥३॥
ईश्वर उवाच --
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम्।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा॥४॥
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम्।
गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने॥५॥
वेद शास्त्र पुराणानि इतिहासादिकानि च।
मन्त्र यन्त्रादि विद्याश्च स्मृतिरुच्चाटनादिकम्॥६॥
शैव शाक्तागमादीनि अन्यानि विविधानि च।
अपभ्रंशकराणीह जीवानां भ्रांत चेतसाम्॥७॥
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च।
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः॥८॥
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः॥९॥
गूढ विद्या जगन्माया देहे चाज्ञान संभवा।
उदयः यत्प्रकाशेन गुरुशब्देन कथ्यते॥१०॥
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्।
देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि ते॥११॥
गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत्।
सर्व तीर्थावगाहस्य संप्राप्नोति फलं नरः॥१२॥
शोषनं पाप पङ्कस्य दीपनं ज्ञान तेजसाम्।
गुरुपादोदकं सम्यक् संसारार्णव तारकम्॥१३॥
अज्ञान मूल हरणं जन्म कर्म निवारणम्।
ज्ञान वैराग्य सिद्ध्यर्थं गुरु पादोदकं पिबेत्॥१४॥
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम्।
गुरुमूर्तेः सदा ध्यानं गुरुमंत्रं सदा जपेत्॥१५॥
काशीक्षेत्रं तन्निवासो जाह्नवी चरणोदकम्।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम्॥१६॥
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः।
तीर्थ राजः प्रयागश्च गुरुमूर्त्यै नमो नमः॥१७॥
गुरुमूर्तिं स्मरेन्नित्यं गुरु नाम सदा जपेत्।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत्॥१८॥
गुरुवक्त्र स्थितं ब्रह्म प्राप्यते तत्प्रसादतः।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतेर्यथा॥१९॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टि वर्धनम्।
एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत्॥२०॥
अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम्।
तस्मात् सर्व प्रयत्नेन गुरोराराधनं कुरु॥२१॥
त्रैलोक्ये स्फुट वक्तारो देवाद्यसुर पन्नगाः।
गुरुवक्त्र स्थिता विद्या गुरुभक्त्ये तु लभ्यते॥२२॥
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते।
अज्ञान ग्रासकं ब्रह्म गुरुरेव न संशयः॥२३॥
गुकारः प्रथमो वर्णो मायादि गुण भासकः।
रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम्॥२४॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम्।
हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते॥२५॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम्।
आसनं शयनं वस्त्रं भूशनं वाहनादिकम्॥२६॥
साधकेन प्रदातव्यम् गुरु संतोष कारकम्।
गुरोराराधनं कार्यं स्वजीवितं निवेदयेत्॥२७॥
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम्।
दीर्घ दण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ॥२८॥
शरीरं इन्द्रियं प्राणां सद्गुरुभ्यो निवेदयेत्।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत्॥२९॥
कृमि कीट भस्म विष्ठा दुर्गन्धि मलमूत्रकम्।
श्लेष्म रक्तं त्वचा मांसं वञ्चयेन्न वरानने॥३०॥
संसारवृक्षमारूढाः पतन्तो नरकार्णवे।
येन चैवोद्धृताः सर्वे तस्मै श्री गुरवे नमः॥३१॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परब्रह्म तस्मै श्री गुरवे नमः॥३२॥
हेतवे जगतामेव संसारार्णव सेतवे।
प्रभवे सर्व विद्यानां शम्भवे गुरवे नमः॥३३॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः॥३४॥
त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता।
संसार प्रतिबोधार्थं तस्मै श्रीगुरवे नमः॥३५॥
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत्।
यदानन्देन नन्दन्ति तस्मै श्री गुरवे नमः॥३६॥
यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः।
प्रियं पुत्रदी यत्प्रीत्या तस्मै श्री गुरवे नमः॥३७॥
येन चेतयते हीदं चित्तं चेतयते न यम्।
जाग्रत् स्वप्न सुषुप्त्यादि तस्मै श्री गुरवे नमः॥३८॥
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः।
सदेकरूपरूपाय तस्मै श्री गुरवे नमः॥३९॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अनन्य भाव भावाय तस्मै श्री गुरवे नमः॥४०॥
यस्य कारणरूपस्य कार्य रूपेण भाति यत्।
कार्य कारण रूपाय तस्मै श्री गुरवे नमः॥४१॥
नानारूपं इदं सर्वं न केनाप्यस्ति भिन्नता।
कार्य कारणता चैव तस्मै श्री गुरवे नमः॥४२॥
यदङ्घ्रि कमल द्वन्द्वं द्वन्द्वतापनिवारकम्।
तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम्॥४३॥
शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो नहि।
तस्मात् सर्व प्रयत्नेन श्रीगुरुं शरणं व्रजेत्॥४४॥
वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम्।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम्॥४५॥
गुकारं च गुणातीतं रुकारं रूपवर्जितम्।
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः॥४६॥
अ-त्रिनेत्रः सर्वसाक्षी अ-चतुर्बाहुरच्युतः।
अ-चतुर्वदनो ब्रह्मा श्री गुरु कथितः प्रिये॥४७॥
अयं मयाञ्जलिर्बद्धो दया सागर वृद्धये।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक्॥४८॥
श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम्।
मन्द भाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा॥४९॥
श्रीनाथ चरण द्वन्द्वं यस्यां दिशि विराजते।
तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये॥५०॥
तस्यै दिशे सततमञ्जलिरेश आर्ये
प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वोदयप्रलयनाटकनित्यसाक्षी॥५१॥
श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम्।
वीरेशाष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं
श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम्॥५२॥
अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः
प्राणायाम शतैरनेककरणैर्दुःखात्मकैर् दुर्जयैः।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम्॥५३॥
स्वदेशिकस्यैव शरीरचिन्तनम्
भवेदनन्तस्य शिवस्य चिन्तनम्।
स्वदेशिकस्यैव च नामकीर्तनम्
[भवेदनन्तस्य शिवस्य कीर्तनम्॥५४॥
यत्पाद रेणु कणिका कापि संसारवारिधेः।
सेतुबन्धायते नाथं देशिकं तमुपास्महे॥५५॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत्।
तस्मै श्री देशिकेन्द्राय नमश्चाभीष्टसिद्धये॥५६॥
पादाब्जं सर्वसंसार-दावानलविनाशकम्।
ब्रह्मरन्ध्रे सितांभोज-मध्यस्थं चन्द्रमण्डले॥५७॥
अकथादि त्रिरेखाब्जे सहस्रदल मण्डले।
हंस पार्श्व त्रिकोणे च स्मरेत्तन्मध्यगं गुरुम्॥५८॥
सकल भुवन सृष्टिः कल्पिताशेषपुष्टि-
निर्खिल निगम दृष्टिः संपदं व्यर्थदृष्टिः।
अवगुण परिमार्ष्टिस्तत्पदार्थैक दृष्टि-
भर्व गुण परमेष्टिर्मोक्षमार्गैक दृष्टिः॥५९॥
सकलभुवनरङ्ग स्थापनास्तंभयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः।
सकलसमयसृष्टिः सच्चिदानन्द दृष्टि
निर्वसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः॥६०॥
अग्नि शुद्ध समन्तात ज्वाला परिचकाधिया।
मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः॥६१॥
तदेजति तन्नैजति तद्दूरे तत्समीपके।
तदंतरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥६२॥
अजोऽहमजरोऽहं च अनादिनिधनः स्वयम्।
अविकारश्चिदानन्द अणीयान् महतो महान्॥६३॥
अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम्।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्॥६४॥
श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम्।
यस्य चात्मतपो वेद देशिकं च सदा स्मरेत्॥६५॥
मननं यद्भवं कार्यं तद्वदामि महामते।
साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम्॥६६॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥६७॥
सर्व श्रुति शिरोरत्न विराजित पदांबुजः।
वेदान्तांबुज सूर्यो यस्तस्मै श्रीगुरवे नमः॥६८॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम्।
य एव सर्व संप्राप्तिस्तस्मै श्रीगुरवे नमः॥६९॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम्।
नाद बिन्दु कलातीतं तस्मै श्रीगुरवे नमः॥७०॥
स्थावरं जङ्गमं चैव तथा चैव चराचरम्।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः॥७१॥
ज्ञान शक्ति समारूढस्तत्त्वमाला विभूषितः।
भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः॥७२॥
अनेकजन्मसंप्राप्त सर्वकर्मविदाहिने।
स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः॥७३॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः॥७४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः।
ममात्मा सर्व भूतात्मा तस्मै श्रीगुरवे नमः॥७५॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम्।
मन्त्रमूलं गुरोर्वाक्यं तस्मै श्रीगुरवे नमः॥७६॥
गुरुरादिरनादिश्च गुरुः परम दैवतम्।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः॥७७॥
सप्त सागर पर्यन्त तीर्थ स्नानादिकं फलम्।
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम्॥७८॥
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन।
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत्॥७९॥
गुरुरेव जगत्सर्वं ब्रह्म विष्णु शिवात्मकम्।
गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम्॥८०॥
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः।
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः॥८१॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः।
मनसा वचसा चैव नित्यमाराधयेद्गुरुम्॥८२॥
गुरोः कृपा प्रसादेन ब्रह्म विष्णु सदाशिवाः।
समर्थाः प्रभवादौ च केवलं गुरुसेवया॥८३॥
देव किन्नर गन्धर्वाः पितरो यक्षचारणाः।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम्॥८४॥
महाहङ्कारगर्वेण तपोविद्याबलान्विताः।
संसारकुहरावर्ते घट यन्त्रे यथा घटाः॥८५॥
न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः।
ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखः॥८६॥
ध्यानं शृणु महादेवि सर्वानन्द प्रदायकम्।
सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम्॥८७॥
श्रीमत्परब्रह्म गुरुं स्मरामि श्रीमत्परब्रह्म गुरुं वदामि।
श्रीमत्परब्रह्म गुरुं नमामि श्रीमत्परब्रह्म गुरुं भजामि॥८८॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥८९
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्॥९०॥
हृदंबुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम्।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् चित्पुस्तकाभीष्टवरं दधानम्॥९१॥
श्वेतांबरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रम्।
वामांकपीठस्थितदिव्यशक्तिं मंदस्मितं सांद्रकृपानिधानम्॥९२॥
आनंदमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम्।
योगींद्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि॥९३॥
यस्मिन्सृष्टिस्थितिध्वंस-निग्रहानुग्रहात्मकम्।
कृत्यं पंचविधं शश्वद्भासते तं नमाम्यहम्॥९४॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम्।
वराभययुतं शांतं स्मरेत्तं नामपूर्वकम्॥९५॥
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्।
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥९६॥
इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवम्।
मम शासनतो मम शासनतो मम शासनतो मम शासनतः॥९७॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम्।
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत्॥९८॥
गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत्।
अनित्यं खंडयेत्सर्वं यत्किंचिदात्मगोचरम्॥९९॥
ज्ञेयं सर्वस्वरूपं च ज्ञनं च मन उच्यते।
ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः॥१००॥
एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः।
स याति नरकं घोरं यावच्चंद्रदिवाकरौ॥१०१॥
यावत्कल्पांतको तेहस्तावदेव गुरुं स्मरेत्।
गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत्॥१०२॥
हुंकारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथंचन।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन॥१०३॥
गुरुं त्वं कृत्य हुं कृत्य गुरुं निर्जित्य वादतः।
अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्षसः॥१०४॥
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि।
कालमृत्युभयाद्वापि गुरू रक्षति पार्वति॥१०५॥
अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा।
गुरुशापेन ते शीघ्रं क्षयं यांति न संशयः॥१०६॥
मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम्।
स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम्॥१०७॥
श्रुति-स्मृती अविज्ञाय केवलं गुरु सेवकाः।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः॥१०८॥
नित्यं ब्रह्म निराकारं निर्गुअणं बोधयेत्परम्।
सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा॥१०९॥
गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत्।
अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते॥११०॥
आब्रह्मस्तंबपर्यंतं परमात्मस्वरूपकम्।
स्थावरं जंगमं चैव प्रणमामि जगन्मयम्॥१११॥
वंदेऽहं सच्चिदानंदं भेदातीतं सदा गुरुम्।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थिकम्॥११२॥
परात्परतरं ध्येयं नित्यमानंदकारकम्।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम्॥११३॥
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा।
तथात्मनि चिदाकारमानंदं सोऽहमित्युत॥११४॥
अंगुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि।
तत्र स्फुरति भावो यः श्रुणु तं कथयाम्यहम्॥११५॥
अजोऽहममरोहऽहं च ह्यनादिनिधनोऽह्यहम्।
अविकारश्चिअदानन्दो ह्यणीयान्महतो महान्॥
अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम्।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्॥
अगोचरं तथा गम्यं नामरूपविवर्जितम्।
निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति॥११६॥
यथा गंधः स्वभावेन कर्पूरकुसुमादिषु।
शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्वतम्॥११७॥
स्वयं तथाविदो भूत्वा स्थातव्यं यत्रकुत्रचित्।
कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम्॥११८॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत्।
पिंडे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः॥११९॥
स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत्।
परात्परतरं नान्यत् सर्वमेतन्निरालयम्॥१२०॥
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम्।
एकाकी निःस्पृहः शंतस्तिष्ठासेत्तत्प्रसादतः॥१२१॥
लब्धं वाऽथ न लब्ध्वं वा स्वल्पं वा बहुलं तथा।
निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा॥१२२॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः।
सदानंदः सदा शांतो रमते यत्रकुत्रचित्॥१२३॥
यत्रैवे तिष्ठते सोऽपि स देशः पुण्यभाजनम्।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया॥१२४॥
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः।
गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम्॥१२५॥
अनेन यद्भवेत्कार्यं तद्वदामि महामते।
लोकोपकारकं देवि लौकिकं तु न भावयेत्॥१२६॥
लौकिकात्कर्मणो यांति ज्ञानहीना भवार्णवम्।
ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम्॥१२७॥
इदं तु भक्तिभावेन पठते श्रुणुते यदि।
लिखित्वा तत्प्रदातव्यं दानं दक्षिणया सह॥१२८॥
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम्।
भवव्याधिविनाशार्थं स्वयमेव जपेत्सदा॥१२९॥
गुरुगीताक्षरैकं तु मंत्रराजमिमं जपेत्।
अन्ये च विविधा मंत्राः कलां नार्हंति षोडशीम्॥१३०॥
अनंतफलमाप्नोति गुरुगीताजपेन तु।
सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम्॥१३१॥
कालमृत्युभयहरं सर्वसंकटनाशनम्।
यक्षराक्षसभूतानां चोरव्याघ्रभयापहम्॥१३२॥
महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत्।
अथवा मोहनं वश्यं स्वयमेव जपेत्सदा॥१३३॥
कुशैर्वा दूर्वया देवि आसने शुभ्रकंबले।
उपविश्य ततो देवि जपेदेकाग्रमानसः॥१३४॥
ध्येयं शुक्लं च शांत्यर्थं वश्ये रक्तासनं प्रिये।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे॥१३५॥
उत्तरे शांतिकामस्तु वश्ये पूर्वमुखो जपेत्।
दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः॥१३६॥
आग्नेय्यं कर्षणं चैव वायव्यां शत्रुनाशनम्।
नैरर्ऋत्यां दर्शनं चैव ईशान्यं ज्ञानमेव च॥
वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम्॥
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले॥
मोहनं सर्वभूतानां बंधमोक्षकरं भवेत्।
देवराजप्रियकरं सर्वलोकवशं भवेत्॥१३७॥
सर्वेषां स्तंभनकरं गुणानां च विवर्धनम्।
दुष्कर्मनाशनं चैव सुकर्म सिद्धिदं भवेत्॥१३८॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम्।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम्॥१३९॥
सर्वशांतिकरं नित्यं तथा वंध्या सुपुत्रदम्।
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा॥१४०॥
आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम्।
अकामतःस्त्री विधवा जपान्मोक्षमवाप्नुयात्॥१४१॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि।
सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम्॥१४२॥
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम्।
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम्॥१४३॥
कामितस्य कामधेनुः कल्पनाकल्पपादपः।
चिन्तामणिश्चिन्तितस्य सर्व मंगलकारकम्॥१४४॥
मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात्।
भोगकामो जपेद्यो वै तस्य कामफलप्र्दम्॥१४५॥
जपेच्छाक्तस्य सौरश्च गाणपत्यश्च वैष्णव।
शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः॥१४६॥
अथ काम्यजपे स्थानं कथयामि वरानने।
सागरे वा सरित्तीरेऽथवा हरिहरालये॥१४७॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे।
वटे च धात्रीमूले वा मठे वृन्दावने तथा॥१४८॥
पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा।
निर्वेदनेन मौनेन जपमेतं समाचरेत्॥१४९॥
स्मशाने भयभूमौ तु वटमूलान्तिके तथा।
सिद्ध्यन्ति धौतरे मूले चूतवृक्षस्य सन्निधौ॥१५०॥
गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा।
शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च॥१५१॥
संसारमलनाशार्थं भवपाशनिवृत्तये।
गुरुगीताम्भसिस्नानं तत्त्वज्ञः कुरुते सदा॥१५२॥
स एव च गुरुः साक्षात् सदा सद् ब्रह्मवित्तमः।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः॥१५३॥
सर्वशुद्धः पवित्रोऽसौ स्वभावद्यत्र तिष्ठति।
तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि॥१५४॥
आसनस्थः शयानो वा गच्छंस्तिष्ठन् वदन्नपि।
अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा॥१५५॥
शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते॥१५६॥
समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतम्।
भिन्ने कुंभे यथाकाशस्तथात्मा परमात्मनि॥१५७॥
तथैव ज्ञन्नी जीवात्मा परमात्मनि लीयते।
ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम्॥१५८॥
गुरो संतोषिने सर्वे मुक्तास्ते नात्र संशयः।
भुक्तिमुक्तिदयास्तेषां जिव्हाग्रे च सरस्वती॥
एवंविधो महामुक्तः सर्वदा वर्तते बुधः।
तस्य सर्व प्रयत्नेन भावभक्तिं करोति यः॥१५९॥
सर्वसन्देहरहितो मुक्तो भवति पार्वति।
भुक्तिमुक्तिद्वयं तस्य जिव्हाग्रे च सरस्वती॥१६०॥
अनेन प्राणिनः सर्वे गुरुगीता जपेन तु।
सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः॥१६१॥
सत्यं सत्यं पुनः सत्यं धर्मं सांख्यं मयोदितम्।
गुरुगीतासमं नास्ति सत्यं सत्यं वरानने॥१६२॥
एको देव एक धर्म एकनिष्ठा परंतपः।
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम्॥१६३॥
माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा।
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा॥१६४॥
शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबांधवाः।
माता पिता कुलं देवि गुरुरेव न संशयः॥१६५॥
आकल्पं जन्मना कोट्या जपव्रततपःक्रियाः।
तत्सर्वं सफलं देवि गुरुसंतोशमात्रतः॥१६६॥
विद्यातपोबलेनैव मंदभाग्याश्च ये नराः।
गुरुसेवा न कुर्वन्ति सत्यं सत्यं वरानने॥१६७॥
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः।
सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः॥१६८॥
संतुष्टः सुप्रसन्नाश्च गुरुभक्त्या भवंति हि।
फलपुष्पाणि संधत्ते मूले सिक्तं जलं यथा॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम्।
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते॥१६९॥
जपेन जयमाप्नोति चानन्तफलमाप्नुयात्।
हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च॥१७०॥
उग्रध्यानं कुक्कुटस्थं हीनकर्मफलप्रदम्।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे॥१७१॥
जपते जयमाप्नोति मरणे मुक्तिदायकम्।
सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति॥१७२॥
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया।
सुगोप्यं च प्रयत्नेन मम त्वं च प्रियात्विति॥१७३॥
स्वामिमुख्यगणेषादिविष्ण्वादीनां च पार्वति।
मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम्॥१७४॥
अतीवपक्वचित्ताय श्रद्धाभक्तियुताय च।
प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये॥१७५॥
अभक्ते वंचके धूर्ते पाखंडे नास्तिके नरे।
मनसापि न वक्तव्या गुरुगीता कदाचन॥१७६॥
गुरवो बहवः संति शिष्यवित्तापहारकाः।
दुर्लभोऽयं गुरुर्देवि शिष्यसंतापहारकः॥
संसारसागरसमुद्धरणैकमंत्रम् ब्रह्मादिदेवमुनिपूजितसिद्धमंत्रम्॥
दारिद्र्यदुःखभयशोकविनाशमंत्रम् वन्दे महाभयहरं गुरुराजमन्त्रम्॥
॥इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त॥
॥श्रीगुरुदत्तात्रेयार्पणमस्तु॥
Friday, May 8, 2009
Satnam Sri Waheguru
This is wonderfully sung by Jagjit Singh. No doubt, there is, the importance of Guru in Hindu religion. The most important book that is available to us elaborating the utmost importance of Guru is Guru Gita from Skanda purna. Lord Shiva has clearly made it clear that Guru is everything there was and there is and there will be.
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावतीतं त्रिगुणरहितं सदगुरुं तं नमामि ॥
greetings to the Almighty
Ehee naam hai sahara
your name is the support
Ehee naam hai adhara
your name is the melody
Muk Jande ne jism ta
when we die then
Par aatma amar hai
the soul is still eternal
Jide ang sang prabhu hai
the one who has god inside of him
Onu phir kisda daar hai
then he has no fear of anyone