Showing posts with label Padma Puran. Show all posts
Showing posts with label Padma Puran. Show all posts

Wednesday, April 21, 2010

Mrityunjaya Stotram श्रीमृत्युञ्यस्तोत्रम्


श्रीमृत्युञ्यस्तोत्रम्
Mrityunjaya Stotram 

रत्नसानुशरासनं रजताद्रिश्रृङ्गनिकेतन  शिञ्जिनीकृतपद्मगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरबिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥१॥
पञ्जपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेव भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोह पङ्कजासनपद्मलोचनपूजिताकग्रिसरोरुहम् ।
देवसिद्धतरङ्गिणीकरसिक्तशीतजटाध  चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३॥
कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृक्षवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥४॥
यक्षराजसखं भगाक्षिहरं भुजङ्गविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥५॥
भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तफलप्रदं निखिलाघसङ्घनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥६॥
भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनूपमम् ।
भूमिवारिनभोहुताशन सोमपालितस्वाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥८॥
रुद्रं पशुपतिं स्थाणुं नीलण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥९॥
कालकण्ठं कलामूर्त्ति कालाग्निं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१०॥
नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥११॥
वामदेवं महादेवं लोकनाथं जगद्रुरुम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१२॥
देवदेवं जगन्नाथं देवेशमृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१३॥
अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१४॥
आनन्दं परमं नित्यं कैवल्यपदकारणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥१५॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१६॥
॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥
  
Note: Stanza 1 to 8 refers to Chandrasekhar Ashtakam 

     Stanza 9 to 16 refers to Maha Mrityunjaya Stotram 

_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips